योयं यस्य यथाऽनेन प्रापि ज्योतिष्मतीपुरी
नर्मदायास्तटे रम्ये पुरे नर्मपुरे पुरा
ब्रह्मचर्याश्रमे निष्ठो ब्रह्मयज्ञरतःसदा
विज्ञाताखिलशास्त्रार्थो लौकिकाचारचंचुरः
चतुर्णामप्याश्रमाणां कोतीव श्रेयसे सताम्
इदं श्रेयस्त्विदं श्रेयस्त्विदं तु सुकरं भवेत्
ब्रह्मचारी गृहस्थो वा वानप्रस्थोऽथ भिक्षुकः
देवैर्मनुष्यैः पितृभिस्तिर्यग्भिश्चोपजीव्यते 4.1.10.
अस्नात्वा चाप्यहुत्वा वाऽदत्त्वा वाश्नाति यो गृही
अस्नाताशी मलं भुंक्ते त्वजपी पूयशोणितम्
ब्रह्मचर्यं हि गार्हस्थ्ये यादृक्कल्पनयोज्झितम्
हठाद्वा लोकभीत्या वा स्वार्थाद्वा ब्रह्मचर्यभाक्
परदारपरित्यागात्स्वदारपरितुष्टितः
विमुक्तरागद्वेषो यः कामक्रोधविवर्जितः
वैराग्याद्गृहमुत्सृज्य गृहधर्मान्हृदि स्मरेत्
अयाचितोपस्थितया यो वृत्त्या वर्तते गृही
प्राथयेद्यत्क्वचित्किंचिद्दुष्प्रापं वा भविष्यति
गुणागुणविचार्येत्थं स वै विश्वानरो द्विजः 4.1.10.
अग्निशुश्रूषणरतः पंचयज्ञपरायणः
धर्मार्थकामान्युक्तात्मा सोर्जयन्स्वस्वकालतः
पूर्वाह्णे दैविकं कर्म सोकरोत्कर्मकांडवित्
एवं बहुतिथे काले गते तस्याग्रजन्मनः
अपश्यंत्यंकुरमपि संततेः स्वर्गसाधनम्
शुचिष्मत्युवाच न दुर्लभं ममास्तीह किंचित्त्वच्चरणार्चनात्
ये वै भोगाः समुचिताः स्त्रीणां ते त्वत्प्रसादतः
सुवासांसि सुवासाश्च सुशय्या सुनितंबिनी
एकं मे प्रार्थितं नाथ चिराय हृदिसंस्थितम्
विश्वानर उवाच तत्प्रार्थय महाभागे प्रयच्छाम्यविलंबितम् ।।4.1.10.
महेशितुः प्रसादेन मम किंचिन्न दुर्ल्भम्
इति श्रुत्वा वचः पत्युस्तस्य सा पतिदेवता