जठराग्निविवृद्ध्यै यो दद्यादाग्नेयमौषधम्
यज्ञोपस्कर वस्तूनि यज्ञार्थं द्रविणं तु वा
अग्निरेको द्विजातीनां निःश्रेयसकरः परः
अपावनानि सर्वाणि वह्निसंसर्गतः क्षणात्
अपि वेदं विदित्वा यस्त्यक्त्वा वै जातवेदसम्
अंतरात्मा ह्ययं साक्षान्निश्चितो ह्याशुशुक्षणिः
तैजसी शांभवी मूर्तिः प्रत्यक्षा दहनात्मिका
चित्रभानुरयं साक्षान्नेत्रं त्रिभुवनेशितुः 4.1.10.
धूपप्रदीपनैवेद्य पयो दधि घृतैक्षवम्
शिवशर्मोवाच कोयं कृशानुः कस्यायं सूनुः कथमिदं पदम्
योयं यस्य यथाऽनेन प्रापि ज्योतिष्मतीपुरी
नर्मदायास्तटे रम्ये पुरे नर्मपुरे पुरा
ब्रह्मचर्याश्रमे निष्ठो ब्रह्मयज्ञरतःसदा
विज्ञाताखिलशास्त्रार्थो लौकिकाचारचंचुरः
चतुर्णामप्याश्रमाणां कोतीव श्रेयसे सताम्
इदं श्रेयस्त्विदं श्रेयस्त्विदं तु सुकरं भवेत्
ब्रह्मचारी गृहस्थो वा वानप्रस्थोऽथ भिक्षुकः
देवैर्मनुष्यैः पितृभिस्तिर्यग्भिश्चोपजीव्यते 4.1.10.
अस्नात्वा चाप्यहुत्वा वाऽदत्त्वा वाश्नाति यो गृही
अस्नाताशी मलं भुंक्ते त्वजपी पूयशोणितम्
ब्रह्मचर्यं हि गार्हस्थ्ये यादृक्कल्पनयोज्झितम्
हठाद्वा लोकभीत्या वा स्वार्थाद्वा ब्रह्मचर्यभाक्
परदारपरित्यागात्स्वदारपरितुष्टितः
विमुक्तरागद्वेषो यः कामक्रोधविवर्जितः
वैराग्याद्गृहमुत्सृज्य गृहधर्मान्हृदि स्मरेत्
अयाचितोपस्थितया यो वृत्त्या वर्तते गृही
प्राथयेद्यत्क्वचित्किंचिद्दुष्प्रापं वा भविष्यति
गुणागुणविचार्येत्थं स वै विश्वानरो द्विजः 4.1.10.
अग्निशुश्रूषणरतः पंचयज्ञपरायणः
धर्मार्थकामान्युक्तात्मा सोर्जयन्स्वस्वकालतः