तरुरत्नंपारिजातः स्त्रीरत्नं सोर्वशी त्विह
त्रयस्त्रिंशत्सुराणां या कोटिः श्रुति समीरिता
स्वर्गेष्विंद्रपदादन्यन्न विशिष्येत किंचन
अश्वमेधसहस्रस्य लभ्यं विनिमयेन यत्
अर्चिष्मती संयमिनी पुण्यवत्यमलावती
अयमेव सहस्राक्षस्त्वयमेव दिवस्पतिः
सप्तापि लोकपाला ये त एनं समुपासते
एतत्स्थैर्येण सर्वेषां लोकानां स्थैर्यमिष्यते 4.1.10.
दनुजा मनुजा दैत्यास्तपस्यंत्युग्रसंयमाः
सगराद्या महीपाला वाजिमेधविधायकाः
निष्प्रत्यूहं क्रतुशतं यः कश्चित्कुरुतेऽवनौ
असमाप्तक्रतुशता वसंत्यत्र महीभुजः
तुलापुरुषदानादि महादानानि षोडश
अक्लीबवादिनो धीराः संग्रामेष्वपराङ्मुखाः
इत्युद्देशात्समाख्याता महेंद्रनगरी स्थितिः
इमामर्चिष्मतीं पश्य वीतिहोत्रपुरीं शुभाम्
अग्निप्रवेशं ये कुर्युर्दृढसत्त्वा जितेंद्रियाः
अग्निहोत्ररता विप्रास्तथाग्निब्रह्मचारिणः 4.1.10.
शीते शीतापनुत्यै यस्त्विध्मभारान्प्रयच्छति
अनाथस्याग्निसंस्कारं यः कुर्याच्छ्रद्धयान्वितः
जठराग्निविवृद्ध्यै यो दद्यादाग्नेयमौषधम्
यज्ञोपस्कर वस्तूनि यज्ञार्थं द्रविणं तु वा
अग्निरेको द्विजातीनां निःश्रेयसकरः परः
अपावनानि सर्वाणि वह्निसंसर्गतः क्षणात्
अपि वेदं विदित्वा यस्त्यक्त्वा वै जातवेदसम्
अंतरात्मा ह्ययं साक्षान्निश्चितो ह्याशुशुक्षणिः
तैजसी शांभवी मूर्तिः प्रत्यक्षा दहनात्मिका
चित्रभानुरयं साक्षान्नेत्रं त्रिभुवनेशितुः 4.1.10.
धूपप्रदीपनैवेद्य पयो दधि घृतैक्षवम्
शिवशर्मोवाच कोयं कृशानुः कस्यायं सूनुः कथमिदं पदम्