प्रादाच्चंदनपुष्पादि धूपदीपप्रदायिनी
तत्तद्दिक्षु च शक्रादीन्वज्रादींश्च विधानतः
पंचवक्त्राणि चाभ्यर्च्य कृतचंडेश्वरार्चना
शिवागमोक्तविधिना द्रव्यैः सौभाग्यदायिभिः
परिकल्पितोपचारा च कंदमूलफलादिकैः 1.3.2.18.
अंगुष्ठाग्रेण तिष्ठंती ग्रीष्ये पंचाग्निमध्यतः
वर्षरात्रीषु धाराभिः सह वारिधरा पुनः
पाणिपादेन पद्मानि मुखेन च कलानिधिम्
नीवारबीजदानेन सा मृगानप्यपोषयत्
कृतालवालसलिलैः सुवालाकलशाहृतैः
प्रदक्षिणां कृतवती शोणशैलं गिरींद्रजा
पंचाक्षरी जजापैषा शिवस्तोत्राण्युदैरयत्
अनुदिनमरुणाचलेश्वरं सा प्रणतवती विहितप्रदक्षिणाद्यैः
अवज्ञातसुरारातिर्विध्वंसितपुरंदरः
सर्वलोकजयी सिद्धविद्याधरभयावहः
तीक्ष्णानामपि शापानामप्यगोचरतां गतः
दूषको मुनिपत्नीनां धर्ममार्गोपघातकः
हिरण्यकशिपोर्वश्यो हिरण्याक्ष इवापरः
ततः सा तापसीवेषधारिणी गिरिजां प्रति
अरारु भीषणे भीरो निवसस्यत्र किं वने
किमर्थं वाद्य चित्तं ते यौवने भोगनिःस्पृहम्
हंसतूलमयीं शय्यां मुक्तामयवितानिकाम्
तपोजडो मृडो दिष्ट्या प्रागेवास्ति त्वयोज्झितः 1.3.2.19.
किं तु त्रैलोक्यनाथोऽस्ति महिषो दानवेश्वरः
किं निह्नवेन नन्वेष श्रुत्वा सर्वं चिरात्प्रभुः
इत्यत्यंतविरुद्धं तां ब्रुवाणामसमंजसम्
सा चातिरोषेण कृतप्रतिज्ञा दैत्यरूपिका
सोऽपि तत्सर्वमाकर्ण्य रुषातीवारुणेक्षणः
स्यन्दनैर्द्विरदैरश्वैः पत्तिभिश्च समंततः
क्ष्वेलितैर्वाद्यघोषैश्च नभः स्फुटदिवाभवत्