प्रतिमंत्रं नमस्कुर्यादुदयास्तमये रविम्
एवं कुर्वन्नरो जातु न दरिद्रो न दुःखभाक् 4.1.9.
विनौषधैर्विना वैद्यैर्विनापथ्यपरिग्रहैः
इत्येकदेशः कथितो भानुलोकस्य सत्तम
स्वकर्णविषयीकुर्वन्नितिपुण्यकथामिमाम्
न दरिद्रो भवेत्क्वापि नाधर्मेषु प्रवर्तते
ब्राह्मणैः सततं श्राव्यमिदमाख्यानमुत्तमम्
ब्राह्मणाः क्षत्रिया वैश्याः शृण्वंतोऽध्यायमुत्तमम्
नयनानंदसंदोहदायिनीपूरनुत्तमा
गणावूचतुः शिवशर्मन्महाभागसुतीर्थफलितद्रुम
तपोबलेन महता विहिता विश्वकमर्णा
यदाकलानिधिः क्वापि दर्शे ऽदृश्यत्वमावहेत्
यदच्छभित्तौ वीक्ष्य स्वमन्ययोपिद्विशंकिता
हर्म्येषु नीलमणिभिर्निर्मितेष्वत्रनिर्भयम्
चंद्रकांतशिलाजालस्रुतमात्रामलंजलम्
कुविंदा न च संत्यत्र न च ते पश्यतो हराः
गणका नात्र विद्यंते चिंताविद्याविशारदाः
सूपकारा न संत्यत्र रसकर्म विचक्षणाः 4.1.10.
कीर्तिरुच्चैःश्रवा यस्य सर्वतो वाजिराजिषु
ऐरावतो दंतिवरश्चतुर्दंतोत्र राजते
तरुरत्नंपारिजातः स्त्रीरत्नं सोर्वशी त्विह
त्रयस्त्रिंशत्सुराणां या कोटिः श्रुति समीरिता
स्वर्गेष्विंद्रपदादन्यन्न विशिष्येत किंचन
अश्वमेधसहस्रस्य लभ्यं विनिमयेन यत्
अर्चिष्मती संयमिनी पुण्यवत्यमलावती
अयमेव सहस्राक्षस्त्वयमेव दिवस्पतिः
सप्तापि लोकपाला ये त एनं समुपासते
एतत्स्थैर्येण सर्वेषां लोकानां स्थैर्यमिष्यते 4.1.10.
दनुजा मनुजा दैत्यास्तपस्यंत्युग्रसंयमाः
सगराद्या महीपाला वाजिमेधविधायकाः