न दरिद्रा न च दुःखार्ता न व्याधि परिपीडिताः
संक्रमेषु न यैर्दत्तं न स्नातं तीर्थवारिषु 4.1.9.
ते दृश्यंते प्रतिद्वारं विहीन नयनाननाः
समं कृष्णलकेनापि यो दद्यात्कांचनं कृती
सर्वं गंगासमं तोयं सर्वे ब्रह्मसमा द्विजाः
दत्तं जप्तं हुतं स्नातं यत्किंचित्सदनुष्ठितम्
रविवारे संक्रमश्चेदुपरागोऽथवाभवेत्
भानुवारो यदा षष्ठ्यां सप्तम्यामथ जायते
हंसो भानुः सहस्रांशुस्तपनस्तापनो रवि
विश्वरूपो विश्वकर्ता मार्तंडो मिहिरोंऽशुमान्
द्वादशात्मा सप्तहयो भास्करो हस्करः खगः
त्रिलोकेशो लोकसाक्षीतमोरिः शाश्वतः शुचिः 4.1.9.
द्युमणिर्हरिदश्वोर्को भानुमान्भयनाशनः
एकचक्ररथो मित्रो मंदेहारिस्तमिस्रहा
हेलिकश्चित्रभानुश्च कलिघ्नस्तार्क्ष्यवाहनः
घर्मरश्मिर्दुर्निरीक्ष्यश्चंडांशुः कश्यपात्मजः
प्रणवादि चतुर्थ्यंतैर्नमस्कार समन्वितैः
विगृह्य पाणियुग्मेन ताम्रपात्रं सुनिर्मलम्
करवीरादि कुसुमै रक्तचंदनमिश्रितैः
दद्यादर्घ्यमनर्घ्याय सवित्रे ध्यानपूर्वकम्
प्रतिमंत्रं नमस्कुर्यादुदयास्तमये रविम्
एवं कुर्वन्नरो जातु न दरिद्रो न दुःखभाक् 4.1.9.
विनौषधैर्विना वैद्यैर्विनापथ्यपरिग्रहैः
इत्येकदेशः कथितो भानुलोकस्य सत्तम
स्वकर्णविषयीकुर्वन्नितिपुण्यकथामिमाम्
न दरिद्रो भवेत्क्वापि नाधर्मेषु प्रवर्तते
ब्राह्मणैः सततं श्राव्यमिदमाख्यानमुत्तमम्
ब्राह्मणाः क्षत्रिया वैश्याः शृण्वंतोऽध्यायमुत्तमम्
नयनानंदसंदोहदायिनीपूरनुत्तमा
गणावूचतुः शिवशर्मन्महाभागसुतीर्थफलितद्रुम