योसावादित्यपुरुषः सोसावहमिति स्फुटम्
निश्चितार्थां श्रुतिमिमां ब्राह्मणासो द्विजोत्तम 4.1.9.
उपलभ्य च सावित्रीं नोपतिष्ठेत यः पराम्
तावत्प्रातर्जपंस्तिष्ठेद्यावदर्धोदयो रवेः
सादित्यां मध्यमां संध्यां जपेदादित्यसंमुखः
काले फलंत्योषधयः काले पुष्पंति पादपाः
मंदेहदेहनाशार्थमुदयास्तमये रविः
गायत्रीमंत्रतोयाढ्यं दत्तं येनांजलित्रयम्
किं किं न सविता सूते काले सम्यगुपासितः
मित्रपुत्र कलत्राणि क्षेत्राणि विविधानि च
अष्टादश सुविद्यासु मीमांसातिगरीयसी
ततोपि धर्मशास्त्राणि तेभ्यो गुर्वी श्रुतिर्द्विज 4.1.9.
दुर्लभा सर्वमंत्रेषु गायत्री प्रणवान्विता
न गायत्री समो मंत्रो न काशी सदृशी पुरी
गायत्री वेदजननी गायत्री ब्राह्मणप्रसूः
वाच्यवाचकसंबंधो गायत्र्याः सवितुर्द्वयोः
प्रभावेणैव गायत्र्याः क्षत्रियः कौशिको वशी
सामर्थ्यं प्राप चात्युच्चैरन्यद्भुवनसर्जने
न ब्राह्मणो वेदपाठान्न शास्त्रपठनादपि
गायत्र्येव परं विष्णुर्गायत्र्येव परःशिवः
देवत्रयं स भगवानंशुमाली दिवाकरः
अर्कमुद्दिश्य सततमस्मल्लोकनिवासिनः 4.1.9.
एषो ह देवः प्रदिशोनु सर्वाः पूर्वो ह जातः स उ गर्भे अंतः
सदैवमुपतिष्ठेरन्सौरसूक्तैरतंद्रिताः
पुष्यार्केप्यथ हस्तार्के मूलार्केप्यथवा द्विज
पौषे मास्यर्कदिवसे यः स्नात्वा भास्करोदये
श्रद्धावानेकभक्तश्च कामक्रोधविवर्जितः
अयने विषुवे चापि षडशीतिमुखेषु वा
तिलाञ्जुह्वति साज्यांश्च ब्राह्मणान्भोजयंति च
महापूजां च ये कुर्युर्महामंत्राञ्जपंति च