भर्तरि प्रोषिते याश्च ब्रह्मचर्यव्रताः सदा
कुसुमानि सुगंधीनि सुवासं चंदनं तथा 4.1.9.
पर्णानि ऋजुताराणि जीर्णानि कठिनानि च
सुवासोपस्कराढ्यानि नागवल्ल्या द्विजोत्तम
बहुकौतुकवस्तूनि समर्च्यद्विजदंपती
किंवा प्रतिव्यतीपातमेकसंवत्सरावधि
कामरूपधरो देवः प्रीयतामिति वादिनी
कन्यारूपधराकाचिद्याभुक्ता केनचित्क्वचित्
तदेव वृत्तं ध्यायंती निधनं याति कालतः
निदानमप्सरोलोकस्येतिशृण्वन्द्विजाग्रणीः
यथा कदंबकुसुमं किंजल्कैः सर्वतोवृतम्
दूराद्रविं स विज्ञाय धृततामरसद्वयम् 4.1.9.
विचित्रेणैकचक्रेण सप्तसप्तियुतेन च
अप्सरोमुनिगंधर्व सर्पग्रामणि नैर्ऋतैः
तस्य प्रणामंदेवोपि भ्रूभंगेनानुमन्य च
प्रक्रांते द्युमणौ दूरं शिवशर्मातिशर्मवान्
एतदिच्छाम्यहं श्रोतुमाचक्षाथां ममाग्रतः
शृणु द्विज महाप्राज्ञ त्वय्यकथ्यं न किंचन
नियंता सर्वभूतानां य एकःकारणं परम्
आविर्भाव तिरोभावौ यद्भूनर्तनवर्तिनौ
योसावादित्यपुरुषः सोसावहमिति स्फुटम्
निश्चितार्थां श्रुतिमिमां ब्राह्मणासो द्विजोत्तम 4.1.9.
उपलभ्य च सावित्रीं नोपतिष्ठेत यः पराम्
तावत्प्रातर्जपंस्तिष्ठेद्यावदर्धोदयो रवेः
सादित्यां मध्यमां संध्यां जपेदादित्यसंमुखः
काले फलंत्योषधयः काले पुष्पंति पादपाः
मंदेहदेहनाशार्थमुदयास्तमये रविः
गायत्रीमंत्रतोयाढ्यं दत्तं येनांजलित्रयम्
किं किं न सविता सूते काले सम्यगुपासितः
मित्रपुत्र कलत्राणि क्षेत्राणि विविधानि च