इत्थं द्विजेंद्र निजभृत्यगणान्सदैव संशिक्षयेदवनिगान्स हि धर्मराजः 4.1.8.
इति शृण्वन्कथां रम्यां शिवशर्माप्रियेऽनघाम
का इमा रूपलावण्य सौभाग्यनिधयः स्त्रियः
गीतज्ञा नृत्यकुशला वाद्यविद्या विचक्षणाः
कामकेलिकलाभिज्ञा द्यूतविद्याविशारदाः
नानादेश विशेषज्ञा नानाभाषा सुकोविदाः
लीलानर्मसुसाभिज्ञाः सुप्रलापेषु पंडिताः
निर्मथ्यमानात्क्षीरोदात्पूर्वमप्सरसस्त्वमूः
उर्वशी मेनका रंभा चंद्रलेखा तिलोत्तमा
अलंबुषा गुणवती स्थूलकेशी कलावती
अनंगलतिका चापि तथा मदनमोहिनी
ग्रावद्रावा तपोद्वेष्टी चारुनासा सुकर्णिका 4.1.9.
तपःशुल्का तीर्थशुल्का दानशुल्का हिमावती
अष्टाग्निहोमिका तद्वद्वाजपेयशतोद्भवा
एतस्मिन्नप्सरोलोके वसंत्यन्या अपिस्त्रियः
दिव्यांबरा दिव्यमाल्या दिव्यगंधानुलेपनाः
कृत्वा मासोपवासानि स्खलंति ब्रह्मचर्यतः
ता इमा दिव्यभोगिन्यो रूपलावण्यसंपदः
कृत्वा व्रतानि सांगानि कामिकानि विधानतः
पतिव्रतधृता नार्यो बलेन बलिना धृताः
भर्तरि प्रोषिते याश्च ब्रह्मचर्यव्रताः सदा
कुसुमानि सुगंधीनि सुवासं चंदनं तथा 4.1.9.
पर्णानि ऋजुताराणि जीर्णानि कठिनानि च
सुवासोपस्कराढ्यानि नागवल्ल्या द्विजोत्तम
बहुकौतुकवस्तूनि समर्च्यद्विजदंपती
किंवा प्रतिव्यतीपातमेकसंवत्सरावधि
कामरूपधरो देवः प्रीयतामिति वादिनी
कन्यारूपधराकाचिद्याभुक्ता केनचित्क्वचित्
तदेव वृत्तं ध्यायंती निधनं याति कालतः
निदानमप्सरोलोकस्येतिशृण्वन्द्विजाग्रणीः