देवस्वभोक्तुः क्रोडास्य ब्राह्मणस्वस्यभोजिनः 4.1.8.
न देवार्थे न विप्रार्थे नातिथ्यर्थे पचेत्क्वचित्
उग्रास्य शिशुहंतारममुं विश्रंभघातिनम्
ब्रह्मघ्नं चांधतामिस्रे सुरापं पूयशोणिते
तत्संसर्गिणमावर्षमसिपत्रवने तथा
आप्लुत्याप्लुत्य दुर्दंष्ट्रकाकोलैर्लोहतुंडकैः
स्त्रीघ्नं गोघ्नं च मित्रघ्नं कूटशाल्मलिपादपे
त्वचमस्य च संदंशैस्त्रोटय त्वं महाभुज
ज्वालाकीले महाघोरे नरकेऽमुं नि पातय
कालकूटे च गरदं कूटसाक्ष्याभिवादिनम्
लालापिबेच दुष्प्रेक्ष्य तीर्थासुष्ठीविनं(?) नय 4.1.8.
रसविक्रयिणं विप्रमिक्षुयंत्रे प्रपीडय
गोतिलांश्च तुरंगांश्च विक्रेतारं द्विजाधमम्
मुसलोलूखले वैश्यं कंडयैनं पुनःपुनः
अधोमुखे च नरके दीर्घग्रीवप्रपीड्य
शूद्रं ब्राह्मणजेतारं वैश्यं बाह्मणमानिनम्
लाक्षालवणमांसानां सतैलविषसर्पिषाम्
पाशपाणेकशापाणे बद्ध्वैतांश्चरणेदृढम्
इमां स्त्रियं श्लेषयाशु पुंश्चलीं कुलकल्मषाम्
स्वयं गृहीत्वा नियमं यस्त्यजेदजितेंद्रियः
इत्यादिजल्पन्दुर्वृत्तैः श्रूयते दूरतो यमः 4.1.8.
ये प्रजाः पालयंतीह पुत्रानेव निजौरसान्
वर्णाश्रमाश्च यद्राष्ट्रे ऽनुतिष्ठंति निजां क्रियाम्
नैव दीनो न दुर्वृत्तो नापद्ग्रस्तो न शोकभाक्
ब्राह्मणाः क्षत्रिया वैश्याः स्वधर्म निरताः सदा
उशीनरः सुधन्वा च वृषपर्वा जयद्रथः
युवनाश्वो दंतवक्त्रो नाभागो रिपुमंगलः
एते चान्ये च बहवो राजानो नीतिवर्तिनः
दामोदराच्युत जनार्दन वासुदेव त्याज्या भटाय इति संततमामनंति
गंगाधरांधकरिपो हरनीलकंठ वैकुंठ कैटभरिपो कमठाब्जपाणे 4.1.8.