क्षालितं मुक्तिपुर्यद्भिराशुगंतृशरीरकम् 4.1.8.
कलेवरं पूतिगंधि सदैवाशुचिभाजनम्
अतएवाहि पांडित्यमाद्रिंयते विचक्षणाः
निमेषान्पंचपान्मर्त्ये प्राणंति प्राणिनो ध्रुवम्
स्थिरापायः सदा कायो न धनं निधनेऽवति
सत्वरं गत्वरं चायुर्लोकः शोकसमाकुलः
सत्कर्मणो विपाकोऽयं तव वंद्यौ ममाप्यहो
ममाज्ञा दीयतां तस्मात्साहाय्यं करवाणि किम्
अद्य धन्यतरोस्मीह यद्दृष्टौ भगवद्गणौ
ततः प्रस्थापितस्ताभ्यां प्राविशत्स्वपुरीं यमः
धर्म्याण्येव वचांस्यस्य मनः प्रीतिकराणि च ।। 4.1.8.
पुरी संयमनी सेयमतीव शुभलक्षणा
यमरूपं वर्णयंति मर्त्यलोकेऽन्यथा जनाः
केन पश्यंत्यमुं लोकं निवसंति तथात्र के
धर्ममूर्तिः प्रकृत्यैव निःशंकैः पुण्यराशिभिः
अयमेव हि पिंगाक्षः क्रोधरक्तांतलोचनः
ऊर्ध्वकेशोऽतिकृष्णांगः प्रलयांबुदनिःस्वनः
आनयैनं पातयैनं बधानामुंच दुर्दम
आताडयैनं दुर्वृत्तं धृत्वा पादौ शिलातले
एतस्य गल्लावुत्फुल्लौ क्षुरेणाशुवि पाटय
विदारयास्य मूर्धानं करपत्रेण दारुवत् 4.1.8.
परदारप्रसृमरं करं छिंध्यस्य पापिनः
सूचीभी रोमकूपेषु तनुं व्यधिहि सर्वतः
परदारमुखाघ्रातुर्मुखे निष्ठीवयास्य हि
भर्जयैनं चणकवत्तप्तवालुक कर्परैः
दोषारोपं सदाकर्तुरदोषे क्रूरलोचन
अदत्तपरवस्तूनां गृह्णतः करपल्लवम्
अपवादं गुरोर्वक्तुर्निंदाकर्तुः सुपर्वणाम्
परमर्म स्पृशश्चास्य परच्छिद्रप्रकाशितुः
अन्ये न दीयमाने स्वे निषेद्धुःपापकारिणः