ततो विलोकयामास लोकं लोचनशर्मदम् 4.1.8.
देवानां गायनाद्येते चारणाः स्तुतिपाठकाः
गीतज्ञा अतिगीतेन तोषयंति नराधिपान्
राज्ञां प्रसादलब्धानि सुवासांसि धनान्यपि
ब्राह्मणेभ्यः प्रयच्छंति गीतं गायंत्यहर्निशम्
तेन पुण्येन गांधर्वो लोकस्त्वेषां विशिष्यते
गीतविद्याप्रभावेन देवर्षिर्नारदो महान्
तुंबुरुर्नारदश्चोभौ देवानामतिदुर्लभौ
यदि गीतं क्वचिद्गीतं श्रीमद्धरिहरांतिके
गीतज्ञो यदि गीतेन नाप्नोति परमं पदम्
अस्मिँल्लोके सदा कालं स्मृतिरेषा प्रगीयते 4.1.8.
इति शृण्वन्क्षणात्प्राप पुनरन्यन्मनोहरम्
गणावूचतुः असौ वैद्याधरो लोको नाना विद्या विशारदाः
औषधान्यपि यच्छंति तत्पीडाशमनानि हि
शिष्यं पुत्रेण पश्यंति वस्त्र तांबूल भोजनैः
अभिलाषधिया नित्यं पूजयंतीष्टदेवताः
यावदित्थं कथां चक्रुस्तावत्संयमिनीपतिः
सोम्यमूर्तिर्विमानस्थो धर्मज्ञैः परिवारितः
धर्मराज उवाच कुलोचितं ब्राह्मणानां भवता प्रतिपादितम्
वेदाभ्यासः कृतः पूर्वं गुरवश्चापि तोषिताः
क्षालितं मुक्तिपुर्यद्भिराशुगंतृशरीरकम् 4.1.8.
कलेवरं पूतिगंधि सदैवाशुचिभाजनम्
अतएवाहि पांडित्यमाद्रिंयते विचक्षणाः
निमेषान्पंचपान्मर्त्ये प्राणंति प्राणिनो ध्रुवम्
स्थिरापायः सदा कायो न धनं निधनेऽवति
सत्वरं गत्वरं चायुर्लोकः शोकसमाकुलः
सत्कर्मणो विपाकोऽयं तव वंद्यौ ममाप्यहो
ममाज्ञा दीयतां तस्मात्साहाय्यं करवाणि किम्
अद्य धन्यतरोस्मीह यद्दृष्टौ भगवद्गणौ
ततः प्रस्थापितस्ताभ्यां प्राविशत्स्वपुरीं यमः