अयं शोणगिरेः पादः प्रवालाचलनामवान्
तत एवाहमत्रैव प्रतिष्ठाप्य त्रिलोचनम्
ममाश्रमसमीपेऽस्मिन्पुण्यक्षेत्रमिदं महत्
मुनेरेवमनुज्ञानात्कृताश्रमपरिग्रहा
आश्रमं रक्षितुं सत्यवतीं काननवासिनीम् 1.3.2.18.
तपोवनस्य सर्वस्य रक्षार्थं सा समादिशत्
अनंतरं सा धम्मिल्लं मंदारप्रसवोचितम्
हंसचिह्नदशं हित्वा दुकूलं मिहकालघु
अपि प्रसूनावचयनिस्सहांगुलिपल्लवा
वज्रसूचिनिर्भरांगैरवच्छिन्नानि कंटकैः
पावन्यां कमलानद्यां प्रातर्विहितमज्जना
दर्भाक्षततिलोन्मिश्रैर्गौरी श्रीनदिवारिभिः
वालुकामंडले सूर्यमावाह्याभ्यर्च्य पंकजैः
स्वयमेव प्रतिष्ठाप्य लिंगं किमपि शंकरम्
आसनेन च मूर्त्या च मूलेनांगैश्च सा रविम् 1.3.2.18.
तत्तद्दिक्षु च सोमादीन्ग्रहान्धेन्वादिमुद्रया
अर्घेणातीव शुद्धेन संप्रोक्ष्य च समंततः
भूतशुद्धिं विधायान्वगंतर्यागं चकार सा
शक्तीर्दलेषु वामादीर्दलाग्रे सूर्यवेधसौ
तदूर्ध्वे शक्तिचक्रं च विन्यस्तब्रह्मपंचका
प्रादाच्चंदनपुष्पादि धूपदीपप्रदायिनी
तत्तद्दिक्षु च शक्रादीन्वज्रादींश्च विधानतः
पंचवक्त्राणि चाभ्यर्च्य कृतचंडेश्वरार्चना
शिवागमोक्तविधिना द्रव्यैः सौभाग्यदायिभिः
परिकल्पितोपचारा च कंदमूलफलादिकैः 1.3.2.18.
अंगुष्ठाग्रेण तिष्ठंती ग्रीष्ये पंचाग्निमध्यतः
वर्षरात्रीषु धाराभिः सह वारिधरा पुनः
पाणिपादेन पद्मानि मुखेन च कलानिधिम्
नीवारबीजदानेन सा मृगानप्यपोषयत्
कृतालवालसलिलैः सुवालाकलशाहृतैः