तद्विमानमथारुह्य पीतवासाश्चतुर्भुजः
न तृप्तिमधिगच्छामि श्रुत्वा त्वच्छ्रीमुखेरिताम्
मायापुर्यां मुक्तिपुर्यां शिवशर्मा द्विजोत्तमः
पुरोद्दिश्यामुमेवार्थमितिहासो मयाश्रुतः
शृणु कांते विचित्रार्थां कथां पापप्रणाशिनीम्
शिवशर्मोवाच किंचिद्विज्ञप्तुकामोहं प्रवृद्धकरसंपुटः
न नाम युवयोर्वेद्मि वेद्म्याकृत्या च किंचन
एतदेव हि नौ नाम यदुक्तं श्रीमता त्वया
यदन्यदपि ते चित्ते प्रष्टव्यं तदशंकितम्
इति श्रुत्वा स वचनं भगवद्गणभाषितम्
क इमे विकृताकारा ब्रूतमेतन्ममाग्रतः ।। 4.1.8.
गणावूचतुः अयं पिशाचलोकोत्र वसंति पिशिताशनाः
शिवं प्रसंगतोभ्यर्च्य सकृत्त्वशुचिचेतसः
ततो गच्छन्ददर्शाग्रे हृष्टपुष्टजनावृतम्
लोकैरप्युषितं लोकं श्यामलांगैश्च लोमशैः
गणावूचतुः गुह्यकानामयं लोकस्त्वेते वै गुह्यकाः स्मृताः
स्वमार्गगाधनाढ्याश्च शूद्रप्रायाः कुटुंबिनः
न तिथिं नैव वारं च संक्रात्यादि न पर्व च
एकमेव हि जानंति कुलपूज्यो हि यो द्विजः
समृद्धिभाजोह्यत्रापि तेन पुण्येन गुह्यकाः
ततो विलोकयामास लोकं लोचनशर्मदम् 4.1.8.
देवानां गायनाद्येते चारणाः स्तुतिपाठकाः
गीतज्ञा अतिगीतेन तोषयंति नराधिपान्
राज्ञां प्रसादलब्धानि सुवासांसि धनान्यपि
ब्राह्मणेभ्यः प्रयच्छंति गीतं गायंत्यहर्निशम्
तेन पुण्येन गांधर्वो लोकस्त्वेषां विशिष्यते
गीतविद्याप्रभावेन देवर्षिर्नारदो महान्
तुंबुरुर्नारदश्चोभौ देवानामतिदुर्लभौ
यदि गीतं क्वचिद्गीतं श्रीमद्धरिहरांतिके
गीतज्ञो यदि गीतेन नाप्नोति परमं पदम्