यमदूता न यस्यां हि प्रविशंति कदाचन
हाटकेशो महाकालस्तारके शस्तथैव च
ज्योतिः सिद्धवटे ज्योतिस्ते पश्यंतीह ये द्विजाः
महाकालस्य तल्लिंगं यैर्दृष्टं कष्टिभिः क्वचित
महाकालपताकाग्रैः स्पृष्टपृष्ठास्तुरंगमाः
महाकालमहाकालमहाकालेतिसंततम्
एवमाराध्य भूतेशं महाकालं ततो द्विजः 4.1.7.
युगेयुगे द्वारवत्या रत्नानि परितो मुषन् 4.1.7.
चिंतार्णवे निमग्नोभूत्त्यक्ताशो जीविते धने 4.1.7.
एवं चिंतयतस्तस्य पीडासीदतिदारुणा 4.1.7.
तद्विमानमथारुह्य पीतवासाश्चतुर्भुजः
न तृप्तिमधिगच्छामि श्रुत्वा त्वच्छ्रीमुखेरिताम्
मायापुर्यां मुक्तिपुर्यां शिवशर्मा द्विजोत्तमः
पुरोद्दिश्यामुमेवार्थमितिहासो मयाश्रुतः
शृणु कांते विचित्रार्थां कथां पापप्रणाशिनीम्
शिवशर्मोवाच किंचिद्विज्ञप्तुकामोहं प्रवृद्धकरसंपुटः
न नाम युवयोर्वेद्मि वेद्म्याकृत्या च किंचन
एतदेव हि नौ नाम यदुक्तं श्रीमता त्वया
यदन्यदपि ते चित्ते प्रष्टव्यं तदशंकितम्
इति श्रुत्वा स वचनं भगवद्गणभाषितम्
क इमे विकृताकारा ब्रूतमेतन्ममाग्रतः ।। 4.1.8.
गणावूचतुः अयं पिशाचलोकोत्र वसंति पिशिताशनाः
शिवं प्रसंगतोभ्यर्च्य सकृत्त्वशुचिचेतसः
ततो गच्छन्ददर्शाग्रे हृष्टपुष्टजनावृतम्
लोकैरप्युषितं लोकं श्यामलांगैश्च लोमशैः
गणावूचतुः गुह्यकानामयं लोकस्त्वेते वै गुह्यकाः स्मृताः
स्वमार्गगाधनाढ्याश्च शूद्रप्रायाः कुटुंबिनः
न तिथिं नैव वारं च संक्रात्यादि न पर्व च
एकमेव हि जानंति कुलपूज्यो हि यो द्विजः
समृद्धिभाजोह्यत्रापि तेन पुण्येन गुह्यकाः