तीर्थानि च यथोक्तेन विधिना संचरंति ये
तीर्थयात्रां चिकीर्षुः प्राग्विधायोपोषणं गृहे
कृतपारणको हृष्टो गच्छेन्नियमधृक्पुनः
न परीक्ष्यो द्विजस्तीर्थेष्वन्नार्थी भोज्य एव च
कर्तव्यमृषिभिर्दृष्टं पिण्याकेन गुडेन च
अकालेप्यथवा काले तीर्थे श्राद्धं च तर्पणम् 4.1.6.
तीर्थं प्राप्य प्रसंगेन स्नानं तीर्थे समाचरेत्
नृणां पापकृतां तीर्थे पापस्य शमनं भवेत्
षोडशांशं स लभते यः पराथं च गच्छति
कुश प्रतिकृतिं कृत्वा तीर्थवारिणि मज्जयेत्। मज्जयेच्च यमुद्दिश्य सोष्टमांशं लभेत वै
तीर्थोपवासः कर्तव्यः शिरसो मुंडनं तथा। शिरोगतानि पापानि यांति मुंडनतो यतः
यदह्नि तीर्थप्राप्तिः स्यात्ततोह्नः पूर्ववासरे
तीर्थप्रसंगात्तीर्थांगमप्युक्तं त्वत्पुरोमया
काशीकांती च मायाख्या त्वयोध्याद्वारवत्यपि
श्रीशैलो मोक्षदः सर्वः केदारोपि ततोऽधिकः
प्रयागादपि तीर्थाग्र्यादविमुक्तं विशिष्यते 4.1.6.
अन्यानि मुक्तिक्षेत्राणि काशीप्राप्तिकराणि च श्रावयित्वा द्विजांश्चापि श्रद्धाभक्तिसमन्वितान्
क्षत्रियान्धर्मनिरतान्वैश्यान्सन्मार्गवर्तिनः
अगस्तिरुवाच तस्य पुत्रो महातेजाः शिवशर्मेति विश्रुतः
अधीत्यवेदान्विधिवदर्थं विज्ञाय तत्त्वतः।. पठित्वा धर्मशास्त्राणि पुराणान्यधिगम्य च
अंगान्यभ्यस्य तर्कांश्च परिलोड्य समंततः
आयुर्वेदं विचार्यापि नाट्यवेदे कृतश्रमः
कलासु च कृताभ्यासो मन्त्रशास्त्रविचक्षणः
अर्थानुपार्ज्य धर्मेण भुक्त्वा भोगान्यदृच्छया
यौवनं गत्वरं ज्ञात्वा जरां दृष्ट्वाश्रितां श्रुतिम्
पठतो मे गतः कालस्तथोपार्जयतो धनम्
न मया तोषितो विष्णुः सर्वपापहरो हरिः
तमस्तोमहरः सूर्यो नार्चि तो वै मया क्वचित् 4.1.7.
न प्रीणिता मया देवा यज्ञैः सर्वैः समृद्धिदाः
न मया तर्पिता विप्रा मृष्टान्नैर्मधुरै रसैः