यो लुब्धः पिशुनः क्रूरो दांभिको विषयात्मकः
न शरीर मल त्यागान्नरो भवति निर्मलः
जायंते च म्रियंते च जलेष्वेव जलौकसः
विषयेष्वति संरागो मानसो मल उच्यते
चित्तमंतर्गतं दुष्टं तीर्थस्नानान्न शुद्ध्यति
दानमिज्यातपःशौचं तीर्थसेवा श्रुतं तथा
निगृहीतेंद्रियग्रामो यत्रैव च वसेन्नरः 4.1.6.
ज्ञानपूते ज्ञानजले रागद्वेषमलापहे
एतत्ते कथितं देवि मानसं तीर्थलक्षणम्
यथा शरीरस्योद्देशाः केचिन्मेध्यतमाः स्मृताः
प्रभावादद्भुताद्भूमेः सलिलस्य च तेजसः
तस्माद्भौमेषु तीर्थेषु मानसेषु च नित्यशः
अनुपोष्य त्रिरात्राणि तीर्थान्यनभिगम्य च
अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणैः
यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम्
प्रतिग्रहादुपावृत्तः संतुष्टो येनकेनचित्
अदंभको निरारंभो लघ्वाहारो जितेंद्रियः 4.1.6.
अकोपनोऽमलमतिः सत्यवादी दृढव्रतः तीर्थान्यनुसरन्धीरः श्रद्दधानः समाहितः
तिर्यग्योनि न वै गच्छेत्कुदेशे नैव जायते
अश्रद्दधानः पापात्मा नास्तिकोऽच्छिन्नसंशयः
तीर्थानि च यथोक्तेन विधिना संचरंति ये
तीर्थयात्रां चिकीर्षुः प्राग्विधायोपोषणं गृहे
कृतपारणको हृष्टो गच्छेन्नियमधृक्पुनः
न परीक्ष्यो द्विजस्तीर्थेष्वन्नार्थी भोज्य एव च
कर्तव्यमृषिभिर्दृष्टं पिण्याकेन गुडेन च
अकालेप्यथवा काले तीर्थे श्राद्धं च तर्पणम् 4.1.6.
तीर्थं प्राप्य प्रसंगेन स्नानं तीर्थे समाचरेत्
नृणां पापकृतां तीर्थे पापस्य शमनं भवेत्
षोडशांशं स लभते यः पराथं च गच्छति
कुश प्रतिकृतिं कृत्वा तीर्थवारिणि मज्जयेत्। मज्जयेच्च यमुद्दिश्य सोष्टमांशं लभेत वै