परोपकरणं येषां जागर्ति हृदये सताम्
तीर्थस्नानैर्न सा शुद्धिर्बहुदानैर्न तत्फलम्
परोपकृत्या यो धर्मो धर्मो दानादिसंभवः
परिनिर्मथ्य वाग्जालं निर्णीतमिदमेव हि
उपकर्तुरगस्त्यस्य जातमेतन्निदर्शनम्
करिकर्णाग्रचपलं जीवितं विविधं वसु
यल्लक्ष्मीनाममात्राप्त्या नरो नो माति कुत्रचित् 4.1.6.
गच्छन्यदृच्छयासोथ दूराच्छ्रीशैलमैक्षत
उवाच वचनं पत्नीं तदा प्रीतमना मुनिः
श्रीशैल शिखरं श्रीमदिदंतद्यद्विलोकनात्
गिरि श्चतुरशीत्यायं योजनानां हि विस्मृतः
ब्रूते हि याऽनुज्ञाता पत्या सा पतिता भवेत्
अगस्त्य उवाच किं वक्तुकामा देवि त्वं ब्रूहि तत्त्वमशंकिता
ततः पप्रच्छ सा देवी प्रणम्य मुनिमानता
लोपामुद्रोवाच इदमेव हि सत्यं चेत्किमर्थं काशिरिष्यते
अगस्तिरुवाच आकर्णय वरारोहे सत्यं पृष्टं त्वयामले
मुक्तिस्थानान्यनेकानि कृतस्तत्रापिनिर्णयः 4.1.6.
प्रथमं तीर्थराजं तु प्रयागाख्यं सुविश्रुतम्
नैमिषं च कुरुक्षेत्रं गंगाद्वारमवंतिका
सरस्वती सिंधुसंगो गंगासागरसंगमः
कालंजरं प्रभासश्च तथा बद रिकाश्रमः
गोकर्णो भृगुकच्छश्च भृगुतुंगश्च पुष्करम्
मानसान्यपि तीर्थानि सत्यादीनि च वै प्रिये
गया तीर्थं च यत्प्रोक्तं पितॄणां हि मुक्तिदम्
सधर्मिण्युवाच मानसान्यपि तीर्थानि यान्युक्तानि महामते
येषु सम्यङ्नरः स्नात्वा प्रयाति परमां गतिम्
सत्यं तीर्थं क्षमा तीर्थं तीर्थमिन्द्रियनिग्रहः 4.1.6.
दानं तीर्थं दमस्तीर्थं संतोषस्तीर्थमुच्यते
ज्ञानं तीर्थं धृतिस्तीर्थं तपस्तीर्थमुदाहृतम्
न जलाप्लुतदेहस्य स्नानमित्यभिधीयते