एवमाह्रादयत्यालि क्रमेण गिरिनंदिनी
लूतास्तंतून्नयंत्यत्र कुम्भीराः शैवलान्यपि
हरंत्यवकरान्वालैश्चमराः स्फीतरोमभिः
वानराः फलपुष्पाणि मधुपत्राणि भल्लुकाः
काकोलूकैः शुकश्येनैर्मृगव्याघ्रैर्हरिद्विपैः
हूयमानपुराडाशद्रव्यसौरभ्यहारिणी 1.3.2.18.
पठंति शतरुद्रीयं यत्र वायसवैरिणः
शाकशालिषु शार्दूलाश्चरंति च तथैव गाः
क्वचिच्च शोभने देशे पुण्ये पुण्यमनोहरे
अधस्तात्सप्तपर्णस्य चित्रव्याघ्रत्वगासने
शालिशूकारुणाभाभिर्जटाभिर्भस्मपांडुरम्
नासाग्रनिश्चलदृशं समप्रस्फुरिताधरम्
प्रत्यग्रनिर्णेजनतो ह्यंत्यश्यानदशांचले
षड्वर्गहिंस्रबंधाय स्थापितां वागुरामिव कृतोचितोपचारा सा तमप्राक्षीत्तपोधनम्
स चाहारुणशैलोऽयं पुण्यक्षेत्रेषु पूजितः 1.3.2.18.
इत्युक्त्वा विजयादीनां मुखेनैनामुमां विदन्
कन्दमूलफलाद्यैश्च कृतातिथ्यामिमां मुनिः
ज्योतिःस्तम्भस्य संभूतिमारभ्यानुक्रमेण सः
शोणाद्रेः पूर्वदिग्भागे स्थलीश्वरमिति स्थलम्
वैकुण्ठपरमेष्ठ्यादि गीर्वाण निबिडीकृते
अयं शोणगिरेः पादः प्रवालाचलनामवान्
तत एवाहमत्रैव प्रतिष्ठाप्य त्रिलोचनम्
ममाश्रमसमीपेऽस्मिन्पुण्यक्षेत्रमिदं महत्
मुनेरेवमनुज्ञानात्कृताश्रमपरिग्रहा
आश्रमं रक्षितुं सत्यवतीं काननवासिनीम् 1.3.2.18.
तपोवनस्य सर्वस्य रक्षार्थं सा समादिशत्
अनंतरं सा धम्मिल्लं मंदारप्रसवोचितम्
हंसचिह्नदशं हित्वा दुकूलं मिहकालघु
अपि प्रसूनावचयनिस्सहांगुलिपल्लवा
वज्रसूचिनिर्भरांगैरवच्छिन्नानि कंटकैः