तत्रागस्त्यो महालक्ष्मीं ददृशे सुचिरं स्थिताम्
रात्रावब्जेषु संकोचो दर्शेष्वब्जः क्वचिद्व्रजेत्
यदारभ्य दधारैनां माधवो मानतः किल
त्रैलोक्यं कोलरूपेण त्रासयंतं महासुरम्
संप्राप्याथ महालक्ष्मीं मुनिवर्यः प्रणम्य च
अगस्तिरुवाच क्षीरोदजे कमलकोमलगर्भ गौरि लक्ष्मि प्रसीद सततं नमतां शरण्ये ।। 4.1.5.
त्वं श्रीरुपेंद्रसदने मदनैकमातर्ज्योत्स्नासि चंद्रमसि चंद्रमनोहरास्ये। सूर्ये प्रभासि च जगत्त्रितये प्रभासि लक्ष्मि प्रसीद सततं नमतां शरण्ये
त्वं जातवेदसि सदा दह्नात्मशक्तिर्वेधास्त्वया जगदिदं विविधं विदध्यात्
त्वत्त्यक्तमेतदमले हरते हरोपि त्वं पासि हंसि विदधासि परावरासि
शूरः स एव स गुणी , बुधः धन्यो मान्यः स एव कुलशील कलाकलापैः
यस्मिन्वसेः क्षणमहोपुरुषे गजेऽश्वे स्त्रैणे तृणे सरसि देवकुले गृहेऽन्ने
त्वत्स्पृष्टमेव सकलं शुचितां लभेत त्वत्त्यक्तमेव सकलं त्वशुचीह लक्ष्मि
लक्ष्मीं श्रियं च कमलां कमलालयां च पद्मां रमां नलिनयुग्मकरां च मां च। क्षीरोदजाममृतकुंभकरामिरां च विष्णुप्रियामिति सदाजपतां क्व दुःखम्
इति स्तुत्वा भगवतीं महालक्ष्मीं हरिप्रियाम्
श्रीरुवाच पतिव्रते त्वमुत्तिष्ठ लोपामुद्रे शुभव्रते
स्तुत्यानया प्रसन्नोहं व्रियतां यद्धृदीप्सितम् 4.1.5.
त्वदंगलक्षणैरेभिः सुपवित्रैश्च ते व्रतैः
इत्युक्त्वा मुनिपत्नीं तां समालिंग्य हरिप्रिया
पुनराह मुने जाने तव हृत्तापकारणम्
यदा स देवो विश्वेशो मंदरं गतवान्पुरा
तत्प्रवृत्तिं पुनर्ज्ञातुं ब्रह्माणं केशवं गणान्
ते च काशीगुणान्सर्वे विचार्य च पुनःपुनः
इति श्रुत्वाथ स मुनिः प्रत्युवाच श्रियं ततः
यदि देयो वरो मह्यं वरयोग्योस्म्यहं यदि
ये पठिष्यंति च स्तोत्रं त्वद्भक्त्या मत्कृतं सदा
मास्तु चेष्टवियोगश्च मास्तु संपत्ति संक्षयः 4.1.5.
इति लब्ध्वा वरं सोथ महालक्ष्मीं प्रणम्य च
पाराशर्य उवाच यां वै हृदि निधायेह पुरुषः पुरुषार्थभाक्
ततः श्रीदर्श नानंद सुधाधाराधुनीं मुनिः
वह्निकुंडसमुद्भूत सूतनिर्मलमानस