आपृच्छ्य सर्वान्समुनीन्मुनीश्वरः सबालवृद्धानपि तत्रवासिनः
प्रोषितस्य परितोपि लक्षणैर्नीचवर्त्मपरिवर्तिनोपि वा
वरं हि काश्यां तृणवृक्षगुल्मकाश्चरंति पापं न चरंति नान्यतः
असिं ह्युपस्पृश्य पुनःपुनर्मुनिः प्रासादमालाः परितो विलोकयन्
स्वैरं हसंत्वद्य विधाय तालिकां मिथःकरेणापि करं प्रगृह्य
इत्थं विलप्य बहुशः स मुनिस्त्वगस्त्यस्तत्क्रौंचयुग्मवदहो अबलासहायः 4.1.5.
स्थित्वा क्षणं शिवशिवेति शिवेति चोक्त्वा यावःप्रियेति कठिनाहि दिवौकसस्ते
यावद्व्रजेत्त्रिचतुराणि पदानि खेदात्स्वेदोदबिंदुकणिकांचितभालदेशः
तपोयानमिवारुह्य निमेषार्धेन वै मुनिः
चकंपे चाचलस्तूर्णं दृष्ट्वैवाग्रस्थितम मुनिम्
तपःक्रोधसमुत्थाभ्यां काशीविरहजन्मना
गिरिः खर्वतरो भूत्वा विविक्षुरवनीमिव
पुनरागमनं चेन्मे तावत्खर्वतरो भव
इत्युक्त्वा दक्षिणामाशां सनाथामकरोन्मुनिः
गते तस्मिन्मुनिवरे वेपमानस्तदा गिरिः
अद्याजातः पुनरहं न शप्तो यदगस्तिना 4.1.5.
अरुणोपि च तत्काले कालज्ञो ऽश्वानकालयत्
अद्य श्वो वा परश्वो वाप्यागमिप्यति वै मुनिः
नाद्यापि मुनिरायाति नाद्यापिगिरिरेधते
विवर्धिषति यो नीचः परासूयां समुद्वहन्
मनोरथा न सिद्ध्येयुः सिद्धा नश्यंत्यपि ध्रुवम्
विधवानां स्तना यद्वद्धृद्येव विलयंति च
भवेत्कूलंकपा यद्वदल्पवर्षेणकन्नदी
अविज्ञायान्य सामर्थ्यं स्वसामर्थ्यं प्रदर्शयेत
न तत्याज च तं तापं काशीविरहजं परम्
उदीची दिक्स्पृशमपि स मुनिर्मातरिश्वनम् 4.1.5.
लोपामुद्रे न सा मुद्रा कापीह जगतीतले
क्वचित्तिष्ठन्क्वचिज्जल्पन्क्वचिद्धावन्क्वचित्स्खलन्
ततो व्रजन्ददर्शाग्रे पुण्यराशिस्तपोधनः
विजित्यभानु नाभानुं दिवापि समुदित्वराम्