क्व काशिका विश्वपदप्रकाशिका क्व कार्यमन्यत्परितोतिदुःखम्
काशीं प्रकाशीं कृतपुण्यराशिं हा शीघ्रनाशी विसृजेन्नरः किम्
नरो न रोगी यदिहाविहाय सहायभूतां सकलस्य जंतोः
वित्रस्तपापां त्रिदशैर्दुरापां गंगां सदापां भवपाशशापाम्
हंहो किमंहो निचिताः प्रलब्धा बंहीयसायास भरेण काशीम्
अहो जनानां जडता विहाय काशीं यदन्यत्र न यंति चेतः 4.1.5.
रेरे भवे शोकजलैकपूर्णे पापेस्मलोकाः पतिताब्धिमध्ये
न सत्पथेनापि न योगयुक्त्या दानैर्नवा नैव तपोभिरुग्रैः
धर्मस्तु संपत्तिभरैः किलोह्यतेप्यर्थो हि कामैर्बहुदानभोगकैः
क्षेत्रं पवित्रं हि यथाऽविमुक्तं नान्यत्तथायच्छ्रुतिभिः प्रयुक्तम्
सहोवाचेति जाबालिरारुणेसिरिडामता
सा सुषुम्णा परानाडी त्रयं वाराणसीत्वसौ
तारकं ब्रह्मव्याचष्टे तेन ब्रह्म भवंति हि
भगवानंतकालेऽत्र तारकस्योपदेशतः
नाविमुक्तसमंक्षेत्रं नाविमुक्तसमा गतिः
अविमुक्तं परित्यज्य योन्यत्र कुरुते रतिम् 4.1.5.
इत्थं सुनिश्चित्य मुनिर्महात्मा क्षेत्रप्रभावं श्रुतितः पुराणात्
श्रीकालराजं च ततः प्रणम्य विज्ञापयामास मुनीशवर्यः
हा कालराजप्रति भूतमत्र प्रत्यष्टमिप्रत्यवनीसुतार्कम्
हा कालभैरव भवानभितो भयार्तान्माभैष्ट चे तिभणनैः स्वकरं प्रसार्य
हे यक्षराज रजनीकर चारुमूर्ते श्रीपूर्णभद्रसुतनायक दंडपाणे
त्वमन्नदस्त्वं किल जीवदाता त्वं ज्ञानदस्त्वं किल मोक्षदोपि
गणौ त्वदीयौ किल संभ्रमोद्भ्रमावत्रस्थवृत्तांत विचारकोविदौ
शृणु प्रभो ढुंढिविनायक त्वं वाचं मदीयां तुरटाम्यनाथवत् ।। त्वत्स्थाः समस्ताः किल विघ्नपूगाः किमत्र दुर्वृत्तवदास्थितोहम्
शृण्वंत्वमी पंच विनायकाश्च चिंतामणिश्चापि कपर्दिनामा
परापवादो न मया किलोक्तः परापकारोपि मया कृतो न 4.1.5.
गंगा त्रिकालं परिसेविता मया श्रीविश्वनाथोपि सदा विलोकितः
मातर्विशालाक्षि भवानिमंगले ज्येष्ठेशिसौभाग्यविधानसुंदरि
साक्षिण्य एता किलकाशिदेवताः शृण्वंतु न स्वार्थमहं व्रजाम्यतः
दधीचिरस्थीनि न किं पुरा ददौ जगत्त्रयं किं न ददेऽर्थिने बलिः