क्रियंते व्याकुलाः शैला अहो दावाग्निना प्रिये
नियन्ता सर्वभूतानां योसौ दण्डधरः प्रभुः
आदित्या वसवो रुद्रास्तुषिताः स मरुद्गणाः
येषां दृक्पातमात्रेण पतंति भुवनान्यपि
आज्ञातं कारणं तच्च स्मृतं वाक्यं सुभाषितम्
अविमुक्तं न मोक्तव्यं सर्वथैव मुमुक्षुभिः 4.1.5.
उपस्थितोयं कल्याणि सोंऽतरायो महानिह
काशीद्विजाशीर्भिरहो यदाप्ता कस्तां मुमुक्षुर्यदिवामुमुक्षुः
अहो जना बालिशवत्किमेतां काशीं त्यजेयुः सुकृतैकराशिम्
भवांतरा वर्जित पुण्यराशिं कृच्छैर्महद्भिर्ह्यवगम् यकाशीम्
क्व काशिका विश्वपदप्रकाशिका क्व कार्यमन्यत्परितोतिदुःखम्
काशीं प्रकाशीं कृतपुण्यराशिं हा शीघ्रनाशी विसृजेन्नरः किम्
नरो न रोगी यदिहाविहाय सहायभूतां सकलस्य जंतोः
वित्रस्तपापां त्रिदशैर्दुरापां गंगां सदापां भवपाशशापाम्
हंहो किमंहो निचिताः प्रलब्धा बंहीयसायास भरेण काशीम्
अहो जनानां जडता विहाय काशीं यदन्यत्र न यंति चेतः 4.1.5.
रेरे भवे शोकजलैकपूर्णे पापेस्मलोकाः पतिताब्धिमध्ये
न सत्पथेनापि न योगयुक्त्या दानैर्नवा नैव तपोभिरुग्रैः
धर्मस्तु संपत्तिभरैः किलोह्यतेप्यर्थो हि कामैर्बहुदानभोगकैः
क्षेत्रं पवित्रं हि यथाऽविमुक्तं नान्यत्तथायच्छ्रुतिभिः प्रयुक्तम्
सहोवाचेति जाबालिरारुणेसिरिडामता
सा सुषुम्णा परानाडी त्रयं वाराणसीत्वसौ
तारकं ब्रह्मव्याचष्टे तेन ब्रह्म भवंति हि
भगवानंतकालेऽत्र तारकस्योपदेशतः
नाविमुक्तसमंक्षेत्रं नाविमुक्तसमा गतिः
अविमुक्तं परित्यज्य योन्यत्र कुरुते रतिम् 4.1.5.
इत्थं सुनिश्चित्य मुनिर्महात्मा क्षेत्रप्रभावं श्रुतितः पुराणात्
श्रीकालराजं च ततः प्रणम्य विज्ञापयामास मुनीशवर्यः
हा कालराजप्रति भूतमत्र प्रत्यष्टमिप्रत्यवनीसुतार्कम्
हा कालभैरव भवानभितो भयार्तान्माभैष्ट चे तिभणनैः स्वकरं प्रसार्य