वरं वाराणसीरंको निःशंकोयो यमादपि
ब्रह्मणो दिवसाष्टांशेषपदमैंद्रं विनश्यति 4.1.3.
परार्धद्वयनाशेपि काशीस्थो यो न नश्यति
यत्सुखं काशिवासेत्र न तद्ब्रह्मांडमंडपे
जन्मांतरसहस्रेषु यत्पुण्यं समुपार्जितम्
लब्धोपि सिद्धिं नो यायाद्यदि कुद्ध्येत्त्रिलोचनः
धर्मार्थकाममोक्षाख्यं पुरुषार्थचतुष्टयम्
आलस्येनापि यो यायाद्गृहाद्विश्वेश्वरालयम्
यः स्नात्वोत्तरवाहिन्यां याति विश्वे शदर्शने
स्वर्धुनी दर्शनात्स्पर्शात्स्नानादाचमनादपि
पंचतीर्थावलोकाच्च ततो विश्वेश्वरेक्षणात्
प्रदक्षिणैः स्तोत्रजपैर्नमस्कारैस्तु नर्त्तनैः 4.1.3.
धूर्जटे नीलकंठेश पिनाकिञ्शशिशेखर
मुक्तिमंडपिकायां च निमेषार्धो पवेशनात्
नित्यादिकर्मकरणात्तथातिथिसमर्चनैः
शुक्लपक्षे यथा चंद्रः कलया कलयैधते
श्रद्धाबीजो विप्रपादांबुसिक्तः शाखाविद्यास्ताश्चतस्रो दशापि
सर्वार्थानामत्रदात्री भवानी सर्वान्कामान्पूरयेदत्र ढुंढिः
काश्यां धर्मस्तच्चतुष्पादरूपः काश्यामर्थः सोप्यने कप्रकारः
विश्वेश्वरो यत्र न तत्र चित्रं धर्मार्थकामामृतरूपरूपः
इति ब्रुवाणा गीर्वाणा ददृशुस्तूटजं मुनेः
श्यामाकांजलियाञ्चार्थमृषिकन्यानुयायिभिः 4.1.3.
विधूय सर्व पापानि ज्ञात्वाऽज्ञात्वा कृतान्यपि
सर्वलोकहितार्थाय तदाख्याहि महामुने
धिषणाधिपतेरास्यं विबुधा व्यालुलोकिरे
वाक्पतिरुवाच धन्योसि कृतकृत्योसि मान्योसि महता मपि
प्रत्याश्रमं प्रतिनगं प्रत्यरण्यं तपोधनाः
तपोलक्ष्मीस्त्वयीहास्ति ब्राह्मतेजस्त्वयि स्थिरम्
पतिव्रतेयं कल्याणी लोपामुद्रा सधर्मिणी
पतिव्रतास्वरुंधत्या सावित्र्याप्यनसूयया