सुचिरं नरकान्भुक्त्वा मदिरापानलंपटाः
अतएव पुराणेषु गाथेति परिगीयते
क्व मांसं क्व शिवे भक्तिः क्व मद्यं क्व शिवार्चनम् 4.1.3.
विना शिवप्रसादं हि भ्रांतिः क्वापि न नश्यति
इत्याश्रमचरान्दृष्ट्वा तिर्यञ्चोपि मुनीनिव
यतो विश्वेश्वरेणैते तिर्यञ्चोप्यत्रवासिनः
ज्ञात्वा क्षेत्रस्य माहात्म्यं यो वसेत्कृतनिश्चयः
अविमुक्तरहस्यज्ञा मुच्यंते ज्ञानि नो नराः
इत्याश्चर्यपरा देवा यावद्यांत्याश्रमं मुनेः
सारसो लक्ष्मणाकंठे कंठमाधाय निश्चलः ६७ कंडूयमाना वरटा स्वचंचुपुटकोटिभिः
निरुद्ध्यमान चक्रेण चक्रीक्रेंकितभाषणैः
कलकंठः किलोत्कंठं मंजुगुंजति कुंजगः 4.1.3.
केकीकेकां परित्यज्य मौनं तिष्ठति तद्भयात्
पठंती सारिकासारं शुकंसंबोधयत्यहो
कोकिलः कोमलालापैः कलयन्किलकाकलीम्
मृगाणां पक्षिणामित्थं दृष्ट्वा चेष्टां त्रिविष्टपम्
वरमेतेपक्षिमृगाः पशवः काशिवासिनः
काशीस्थैः पतितैस्तुल्या न वयं स्वर्गिणः क्वचित्
वरं काशीपुरी वासो मासोपवसनादिभिः
शशकैर्मशकैः काश्यां यत्पदं हेलयाप्यते
वरं वाराणसीरंको निःशंकोयो यमादपि
ब्रह्मणो दिवसाष्टांशेषपदमैंद्रं विनश्यति 4.1.3.
परार्धद्वयनाशेपि काशीस्थो यो न नश्यति
यत्सुखं काशिवासेत्र न तद्ब्रह्मांडमंडपे
जन्मांतरसहस्रेषु यत्पुण्यं समुपार्जितम्
लब्धोपि सिद्धिं नो यायाद्यदि कुद्ध्येत्त्रिलोचनः
धर्मार्थकाममोक्षाख्यं पुरुषार्थचतुष्टयम्
आलस्येनापि यो यायाद्गृहाद्विश्वेश्वरालयम्
यः स्नात्वोत्तरवाहिन्यां याति विश्वे शदर्शने
स्वर्धुनी दर्शनात्स्पर्शात्स्नानादाचमनादपि