रोहितोऽरण्यमहिषमुद्धर्षति निराकुलः
हुंडौ च मुंड युद्धाय न सज्जेते जयैषिणौ
तृण्वंति तृणगुल्मादीन्श्वापदास्त्वापदास्पदम् 4.1.3.
यः स्वार्थं मांसपचनं कुरुते पापमोहितः
परप्राणैस्तु ये प्राणान्स्वान्पुष्णं ति हि दुर्धियः
जातुमांसं न भोक्तव्यं प्राणैः कंठगतैरपि
वरमेतेश्वापदा वै मैत्रावरुणि सेवया
बकोपि पल्वले मत्स्यान्नाश्नात्यग्रेचरानपि
एकतः सर्वमांसानि मत्स्यमांसं तथकैतः
श्येनोपि वर्तिकां दृष्ट्वा भवत्येष पराङ्मुखः
सुचिरं नरकान्भुक्त्वा मदिरापानलंपटाः
अतएव पुराणेषु गाथेति परिगीयते
क्व मांसं क्व शिवे भक्तिः क्व मद्यं क्व शिवार्चनम् 4.1.3.
विना शिवप्रसादं हि भ्रांतिः क्वापि न नश्यति
इत्याश्रमचरान्दृष्ट्वा तिर्यञ्चोपि मुनीनिव
यतो विश्वेश्वरेणैते तिर्यञ्चोप्यत्रवासिनः
ज्ञात्वा क्षेत्रस्य माहात्म्यं यो वसेत्कृतनिश्चयः
अविमुक्तरहस्यज्ञा मुच्यंते ज्ञानि नो नराः
इत्याश्चर्यपरा देवा यावद्यांत्याश्रमं मुनेः
सारसो लक्ष्मणाकंठे कंठमाधाय निश्चलः ६७ कंडूयमाना वरटा स्वचंचुपुटकोटिभिः
निरुद्ध्यमान चक्रेण चक्रीक्रेंकितभाषणैः
कलकंठः किलोत्कंठं मंजुगुंजति कुंजगः 4.1.3.
केकीकेकां परित्यज्य मौनं तिष्ठति तद्भयात्
पठंती सारिकासारं शुकंसंबोधयत्यहो
कोकिलः कोमलालापैः कलयन्किलकाकलीम्
मृगाणां पक्षिणामित्थं दृष्ट्वा चेष्टां त्रिविष्टपम्
वरमेतेपक्षिमृगाः पशवः काशिवासिनः
काशीस्थैः पतितैस्तुल्या न वयं स्वर्गिणः क्वचित्
वरं काशीपुरी वासो मासोपवसनादिभिः
शशकैर्मशकैः काश्यां यत्पदं हेलयाप्यते