पुनः पुनर्विश्वनाथं दृष्ट्वा स्तुत्वा प्रणम्य च
स्वनाम्ना लिंगमास्थाप्य कुंडं कृत्वा तदग्रतः
तं दृष्ट्वा दूरतो देवा द्वितीयमिव भास्करम्
साक्षात्किंवाडवाग्निर्वा मूर्त्या वै तप्यते तपः 4.1.3.
अथवा सर्व तेजांसि श्रित्वेमां ब्राह्मणीं तनुम्
तपनस्तप्यतेऽत्यर्थं दहनोपि हि दह्यते
यस्याश्रमे ऽत्र दृश्यंते हिंस्रा अपि समंततः
शुंडादंडेन करटिः सिंहं कंडूयतेऽभयः
सूकरः स्तब्धरोमापि विहाय निजयूथकम्
भूदारोपि न भूदारं तथाकुर्याद्यथाऽन्यतः
क्रोडीकृत्य क्रोडपोतं तरक्षुः क्रीडयत्यहो
चलत्पुच्छोथ पिबति फेनिलेनाननेन वै
यूका संवीक्ष्यवीक्ष्यैव भक्षयेद्दंतकोटिभिः
जातिस्वभावमात्सर्यं त्यक्त्वैकत्र रमंति च 4.1.3.
आखुश्चाखुभुजः कर्णं कंडूयेत चलाननः
स्वकंठं घर्षयत्येव केकिकंठे भुजंगमः
वैरं परित्यज्य लुठेदुत्प्लुत्योत्प्लुत्य लीलया
क्षुधांधोपि न गृह्णाति सोपि तस्माद्बिभेति नो
तद्दृष्टिपातं मुंचन्वै व्याघ्रो दूरं व्रजत्यहो उभे कथयतो ऽन्योन्यं सख्याविवमुदान्विते
दृष्ट्वाप्युद्दंडकोदंडं शबरं शंबरोमृगः
रोहितोऽरण्यमहिषमुद्धर्षति निराकुलः
हुंडौ च मुंड युद्धाय न सज्जेते जयैषिणौ
तृण्वंति तृणगुल्मादीन्श्वापदास्त्वापदास्पदम् 4.1.3.
यः स्वार्थं मांसपचनं कुरुते पापमोहितः
परप्राणैस्तु ये प्राणान्स्वान्पुष्णं ति हि दुर्धियः
जातुमांसं न भोक्तव्यं प्राणैः कंठगतैरपि
वरमेतेश्वापदा वै मैत्रावरुणि सेवया
बकोपि पल्वले मत्स्यान्नाश्नात्यग्रेचरानपि
एकतः सर्वमांसानि मत्स्यमांसं तथकैतः
श्येनोपि वर्तिकां दृष्ट्वा भवत्येष पराङ्मुखः