सचैलमभिमज्ज्याथ कृतसंध्यादिसत्क्रियाः
तीर्थवासार्थिनः सर्वान्संतर्प्य च पृथक्पृथक्
विचित्रैश्च तथा पात्रैः स्वर्णरौप्यादि निर्मितैः
सगोरसैरन्नदानैर्धान्यदानैरनेकधा ।। 4.1.3.
सतूलैर्मृदुपर्यंकैर्दीपिकादर्पणासनैः
चित्रध्वजपताकाभिरुल्लोचैश्चंद्रचारुभिः
उपानत्पादुकाभिश्च यतिनश्च तपस्विनः
दंडैः कमंडलुयुतैरजिनैर्मृगसंभवैः
मठैर्विद्यार्थिनामन्नैरतिथ्यर्थं महाधनैः
बहुधौषधदानैश्च सत्रदानैरनेकशः
छत्राच्छादनिकाद्यर्थे वर्षाकालोचितैर्बहु
पुराणपाठकांश्चापि प्रतिदेवालयं धनैः
देवालय सुधाकार्यैर्जीर्णोद्धारैरनेकधा
नीराजनैर्गुग्गुलुभिर्दशां गादि सुधूपकैः 4.1.3.
पंचामृतानां स्नपनैः सुगंध स्नपनैरपि
महापूजार्थमाल्यादि गुंफनार्थैस्त्रिकालतः
घंटागुडुककुंभादि स्नानोपस्करभाजनैः
जपहोमैः स्तोत्रपाठैः शिवनामोच्चभाषणैः
एवमादिभिरुद्दंडैः क्रियाकांडैरनेकशः
दीनानाथांश्च संतर्प्य नत्वा विश्वेश्वरं विभुम्
पुनः पुनर्विश्वनाथं दृष्ट्वा स्तुत्वा प्रणम्य च
स्वनाम्ना लिंगमास्थाप्य कुंडं कृत्वा तदग्रतः
तं दृष्ट्वा दूरतो देवा द्वितीयमिव भास्करम्
साक्षात्किंवाडवाग्निर्वा मूर्त्या वै तप्यते तपः 4.1.3.
अथवा सर्व तेजांसि श्रित्वेमां ब्राह्मणीं तनुम्
तपनस्तप्यतेऽत्यर्थं दहनोपि हि दह्यते
यस्याश्रमे ऽत्र दृश्यंते हिंस्रा अपि समंततः
शुंडादंडेन करटिः सिंहं कंडूयतेऽभयः
सूकरः स्तब्धरोमापि विहाय निजयूथकम्
भूदारोपि न भूदारं तथाकुर्याद्यथाऽन्यतः