गावो मे पुरतः संतु गावो मे संतु पृष्ठतः
नीराजयति योंगानि गवां पुच्छेन भाग्यवान्
गोभिर्विप्रश्च वेदैश्च सतीभिः सत्यवादिभिः 4.1.2.
मम लोकात्परोलोको वैकुंठ इति गीयते
शिवलोकस्तदुपरि गोलो कस्तत्समीपतः
गवां शुश्रूरूषकाये च गोप्रदाये च मानवाः
यत्र क्षीरवहा नद्यो यत्र पायस कर्दमाः
श्रुतिस्मृतिपुराणज्ञा ब्राह्मणाः परिकीर्तिताः
श्रुतिस्मृती तु नेत्रे द्वे पुराणं हृदयं स्मृतम् पुराणहीनाद्धृच्छून्यात्काणांधावपि तौ वरौ
तद्बाह्मणाय गोर्देया सर्वत्र सुखमिच्छता
यस्य धर्मेऽस्ति जिज्ञासा यस्य पापाद्भयं महत्
चतुर्दशसु विद्यासु पुराणं दीप उत्तमः 4.1.2.
उत्फुल्लपद्मनयना निर्मिताः सुकृतार्थिनः 4.1.2.
इह वंशं परिस्थाप्य भुक्त्वा सर्व सुखानि च
सूत उवाच अवाप्य काशीं गीर्वाणैः किमकारि वदाच्युत
अधीत्येमां कथां दिव्यां न तृप्तिमधियाम्यहम्
कथं विंध्योप्यवाप स्वां प्रकृतिं तादृगुन्नतः
इति कृत्स्नं समाकर्ण्य व्यासः पाराशरो मुनिः
पाराशर उवाच शुकवैशंपायनाद्याः शृण्वंत्वेते च बालकाः
ततो वाराणसीं प्राप्य गीर्वाणाः समहर्षयः
सचैलमभिमज्ज्याथ कृतसंध्यादिसत्क्रियाः
तीर्थवासार्थिनः सर्वान्संतर्प्य च पृथक्पृथक्
विचित्रैश्च तथा पात्रैः स्वर्णरौप्यादि निर्मितैः
सगोरसैरन्नदानैर्धान्यदानैरनेकधा ।। 4.1.3.
सतूलैर्मृदुपर्यंकैर्दीपिकादर्पणासनैः
चित्रध्वजपताकाभिरुल्लोचैश्चंद्रचारुभिः
उपानत्पादुकाभिश्च यतिनश्च तपस्विनः
दंडैः कमंडलुयुतैरजिनैर्मृगसंभवैः
मठैर्विद्यार्थिनामन्नैरतिथ्यर्थं महाधनैः
बहुधौषधदानैश्च सत्रदानैरनेकशः