जातु विद्यागमालापैः कदाचिच्चित्रवस्तुभिः
पुष्पावचयनैर्जातु कदाचिद्वारिखेलनैः
मैनाकेनार्चितौ जातु मेनया जातु पूजितौ
जातु द्यूतविनोदेन गतिगोष्ठ्या कदाचन 1.3.2.17.
द्यूतनिर्जितमाच्छिद्य पत्युरुत्संगतां गतम्
इति तौ पितरौ चराचराणां निवसंतौ कनकाचलादिकेषु
पक्वान्नपानैस्सा तत्र पर्य्यतर्पयत प्रजाः
जातु संध्यानुसंधानमुकुलीकृतलोचनम्
ध्यायते नूनमधुना कापि सौभाग्यशालिनी
कथं विज्ञायते पुंसां कुटिला मानसी स्थितिः
मयि दाक्षिण्यमेवास्य मन्ये मनसि चेद्रहः
अद्यप्रभृति ते दासस्तपोभिः क्रीत इत्यपि
असमानानुरागेषु नारीणां मूढचेतसाम्
इति प्रणयरोषेण देव्याः कलुषचेतसः
वाष्पवारिप्लवे तस्या आताम्रे च विलोचने
यत्तस्याधीनतिलकं भ्रुवोर्युगमभज्यत 1.3.2.18.
अंतर्मन्युभरेणास्याः कंपते स्माधरच्छदः
अतीव रज्यमाने तत्पार्वत्या गंडमंडलम्
अंतर्वेपधुतौ तस्याश्चकंपाते पयोधरौ
अचिंतयच्च संभूय सौभाग्याभावतो ननु
तदैषा क्वापि यास्यामि किमत्रास्त्येकया मम
निमीलिताक्षिण्येवास्य गंतव्यं निभृतं मया
वत्सौ तु वर्धयत्येव गंगेयमतिवत्सला
इति निश्चित्य देवस्य पार्श्वादाशु निवृत्त्य सा
चलावती माल्यवती मालिनी विजया जया
तत्र सापि गिरीन्पुण्यान्वनानि नगराणि च 1.3.2.18.
भ्रमंती सह्यपादेषु द्राविडाख्ये सुनीवृति
दृश्योऽयं नातिदूरेण पुरस्तात्सकलारुणः
उपत्यकासु चैतस्य दृश्यंते तापसाश्रमाः
गत्वा निरूपयामस्तानिमान्पुण्याश्रमान्वयम्