शक्रं कोपयता पूर्वमस्मद्गोत्रेण केनचित्
अथवा स कथं मेरुस्तथोच्चैः स्पर्द्धते मया
अलीकवाक्त्वमथवा संभाव्यं नारदे कथम्
युक्तायुक्तविचारोथ मादृशेनोपयुज्यते
अथवा चिन्तनैरेतैः किंव्यर्थैर्विश्वकारकम्
अनाथनाथः सर्वेषां विश्वनाथो हि गीयते
एतदेव करिष्यामि नेष्टं कालविलंबनम्
मेरुं प्रदक्षिणीकुर्यान्नित्यमेव दिवाकरः 4.1.1.
इति निश्चित्य विन्ध्याद्रिर्ववृधे स मृधेक्षणः
कैश्चित्सार्द्धं विरोधो न कर्तव्यः केनचित्क्वचित्
निरुध्य ब्राध्नमध्वानं कृतकृत्य इवाद्रिराट्
यमद्ययमकर्तासौ दक्षिणं प्रक्रमिष्यति
यावत्स्वश क्तिं शक्तोपि न दर्शयति कर्हिचित्
इति चिंतामहाभारं त्यक्त्वा तस्थौ स्थिरोद्यमः
व्यास उवाच उदियायोदयगिरौ शुचिप्रसृमरैः करैः
संवर्धयन्सतां धर्मान्त्यक्कुर्वंस्तामसीं स्थितिम्
हव्यं कव्यं भूतबलिं देवादीनां प्रवर्तयन्
असतां हृदि वक्त्रेषु निर्दिशंस्तमसः स्थितिम्
यस्मिन्नभ्युदिते जातः सम्यक्पुण्यजनोदयः
सायमस्तमितः प्रातः कथं जीवेद्रविः पुनः
यामं भुक्त्वा तथाग्नेयीं ज्वलंतीं विरहादिव
तांबूलीरागरक्तौष्ठीं द्राक्षास्तबकसुस्तनीम्
मलयानिल निःश्वासां क्षीरोदकवरांबराम्
कावेरीगौतमीजंघां चोलचोलां शुकावृताम् 4.1.2.
सुकोमलमहाराष्ट्रीवाग्विलासमनोहराम्
सुदक्षदक्षिणामाशामाशानाथः प्रतस्थिवान्
न शेकुरग्रतो गंतुं ततोऽनूरुर्व्यजिज्ञपत्
अनूरुरुवाच भानो मानोन्नतो विन्ध्यो निद्ध्यय गगनं स्थितः
अन्रूरुवाक्यमाकर्ण्य सविता हृद्यचिन्तयत्
व्यास उवाच सूरः शूरोपि किं कुर्यात्प्रांतरे वर्त्मनिस्थितः