माभैष्ट भद्र कालेन तथा प्रतिविधीयते
दत्ताभयान्मुकुंदादीन्विसृज्यांधकसूदनः
कदाचिन्मर्मलक्ष्येण प्रीत्या कालीति निंदिता
यत्रोत्क्षिप्तवती चर्म स्वेच्छया परमेश्वरी 1.3.2.17.
सा च त्वक्कौशिकी नाम्ना काली विंध्याद्रिवासिनी
देवी च गौरी शिखरे तस्मिन्नेव मनोहरे
क्रमेण दौर्हृदवती भूत्वा प्रासूत पार्वती
तौ चागमविदः प्राहुर्नारायणचतुर्मुखौ
वर्धमानौ च तौ बालौ पित्रोरालोकमानयोः
जातु वीणानिनादेन कदाचिच्चित्रलेखनैः
जातु विद्यागमालापैः कदाचिच्चित्रवस्तुभिः
पुष्पावचयनैर्जातु कदाचिद्वारिखेलनैः
मैनाकेनार्चितौ जातु मेनया जातु पूजितौ
जातु द्यूतविनोदेन गतिगोष्ठ्या कदाचन 1.3.2.17.
द्यूतनिर्जितमाच्छिद्य पत्युरुत्संगतां गतम्
इति तौ पितरौ चराचराणां निवसंतौ कनकाचलादिकेषु
पक्वान्नपानैस्सा तत्र पर्य्यतर्पयत प्रजाः
जातु संध्यानुसंधानमुकुलीकृतलोचनम्
ध्यायते नूनमधुना कापि सौभाग्यशालिनी
कथं विज्ञायते पुंसां कुटिला मानसी स्थितिः
मयि दाक्षिण्यमेवास्य मन्ये मनसि चेद्रहः
अद्यप्रभृति ते दासस्तपोभिः क्रीत इत्यपि
असमानानुरागेषु नारीणां मूढचेतसाम्
इति प्रणयरोषेण देव्याः कलुषचेतसः
वाष्पवारिप्लवे तस्या आताम्रे च विलोचने
यत्तस्याधीनतिलकं भ्रुवोर्युगमभज्यत 1.3.2.18.
अंतर्मन्युभरेणास्याः कंपते स्माधरच्छदः
अतीव रज्यमाने तत्पार्वत्या गंडमंडलम्
अंतर्वेपधुतौ तस्याश्चकंपाते पयोधरौ
अचिंतयच्च संभूय सौभाग्याभावतो ननु