गौरीगुरुत्वाद्धिमवानादिपत्याच्च भूभृताम्
नमेरुः स्वर्णपूर्णत्वाद्रत्नसानुतयाथवा
परं शतं न किंशैला इलाकलनकेलयः
मन्देहदेहसंदेहादुदयैकदयाश्रितः
नीलश्च नीलीनिलयो मन्दरो मन्दलोचनः
हेमकूटत्रिकूटाद्याः कूटोत्तरपदास्तुते
इति विंध्यवचः श्रुत्वा नारदोऽचिन्तयद्धृदि
श्रीशैलमुख्याः किंशैलानेह संत्यमलश्रियः 4.1.1.
अद्यास्य बलमालोक्यमिति ध्यात्वाब्रवीन्मुनिः
परं शैलेषु शैलेंद्रो मेरुस्त्वामवमन्यते
अथवा मद्विधानां हि केयं चिंता महात्मनाम्
गते मुनौ निनिंदस्वमतीवोद्विग्नमानसः
विंध्य उवाच धिग्जीवितंशास्त्रकलोज्झितस्य धिग्जीवितं चोद्यमवर्जितस्य
कथं भुनक्ति स दिवा कथं रात्रौ स्वपित्यहो
अहोदवाग्निदवथुस्तथामां न स बाधते
युक्तमुक्तं पुराविद्भिश्चिन्तामूर्तिः सुदारुणा
चिन्ताज्वरो मनुष्याणां क्षुधांनिद्रांबलं हरेत्
ज्वरो व्यतीते षडहे जीर्णज्वर इहोच्यते 4.1.1.
धन्यो धन्वतरिर्नात्र चरकश्चरतीह न
किं करोमि क्व गच्छामि कथं मेरुं जयाम्यहम्
शक्रं कोपयता पूर्वमस्मद्गोत्रेण केनचित्
अथवा स कथं मेरुस्तथोच्चैः स्पर्द्धते मया
अलीकवाक्त्वमथवा संभाव्यं नारदे कथम्
युक्तायुक्तविचारोथ मादृशेनोपयुज्यते
अथवा चिन्तनैरेतैः किंव्यर्थैर्विश्वकारकम्
अनाथनाथः सर्वेषां विश्वनाथो हि गीयते
एतदेव करिष्यामि नेष्टं कालविलंबनम्
मेरुं प्रदक्षिणीकुर्यान्नित्यमेव दिवाकरः 4.1.1.
इति निश्चित्य विन्ध्याद्रिर्ववृधे स मृधेक्षणः
कैश्चित्सार्द्धं विरोधो न कर्तव्यः केनचित्क्वचित्