भ्रमद्भ्रमरमालाभिर्मालतीभिरलंकृतम्
नानामृगगणाकीर्णं नानापक्षिविनादितम्
तुच्छश्रियः स्वर्गभूमीः परिहायागतैरिव
उत्सृजंतमिवार्घ्यं वै पत्रपुष्पैरितस्ततः
अथ सूर्यशताभासं नभसि द्योतितांबरम्
ब्रह्मसूनुवपुस्तेजो दूरीकृतदरीतमाः
ब्रह्मतेजःसमुद्भूत साध्वसः साधुस त्क्रियः
दृष्ट्वा मृदुलतां तस्य द्वैरूप्येपि स नारदः 4.1.1.
गृहानायांतमालोक्य गुरुंवाऽगुरुमेव वा
तं प्रत्युच्चैः शिराःसोपि विनम्रतरकंधरः
तमुत्थाप्य कराग्राभ्यामाशीर्भिरभिनंद्य च
स दध्नामधुनाज्येन नीरार्द्राक्षतदूर्व या
गृहीतार्घ्यंकिल श्रांतं पादसंवाहनादिभिः
अद्य सद्यः परिहृतं त्वदंघ्रिरजसारजः
सफलर्धिरहं चाद्य सुदिवाद्यच मे मुने
धराधरत्वं कुलिषुमान्यं मेऽद्य भविष्यति
पुनरूचे कुलिवरः संभ्रमाप न्नमानसः
अदृष्टं तव नोदृष्टं यदिष्टंविष्टपत्रये 4.1.1.
त्वदागमनजानन्दसंदोहैर्मे दुरारवः
धराधरणसामर्थ्यं मेर्वादौ पूर्वपूरुषैः
गौरीगुरुत्वाद्धिमवानादिपत्याच्च भूभृताम्
नमेरुः स्वर्णपूर्णत्वाद्रत्नसानुतयाथवा
परं शतं न किंशैला इलाकलनकेलयः
मन्देहदेहसंदेहादुदयैकदयाश्रितः
नीलश्च नीलीनिलयो मन्दरो मन्दलोचनः
हेमकूटत्रिकूटाद्याः कूटोत्तरपदास्तुते
इति विंध्यवचः श्रुत्वा नारदोऽचिन्तयद्धृदि
श्रीशैलमुख्याः किंशैलानेह संत्यमलश्रियः 4.1.1.
अद्यास्य बलमालोक्यमिति ध्यात्वाब्रवीन्मुनिः
परं शैलेषु शैलेंद्रो मेरुस्त्वामवमन्यते