अनिलालोल कंकोल वल्लीहल्ली सकायितम्
मंदांदोलितकर्पूर कदलीदल संज्ञया
पुन्नागमिव पुन्नागपल्लवैःकरपल्लवैः
विदीर्णदाडिमैः स्वांतं दर्शयंतं तु रागवत्
उदुंबरैरंबरगैरनंतफलमालितैः
पनसैर्वनासाभैः शुकनासैः पलाशकैः
कदंबवादिनो नीपान्दृष्ट्वा कंटकितैरिव
नमेरुभिश्च मेरूच्चशिखरैरिव राजितम्
तटेतटेपटुवटैरुच्चैःपटकुटी वृतम् 4.1.1.
करमर्दैः करीरैश्च करजैश्चकरंबकैः
नीराजितमिवोद्दीपैराजचंपककोरकैः
क्वचिच्चलदलैरुच्चैः क्वचित्कांचनकेतकैः
कर्कंधु बंधुजीवैश्च पुत्रजीवैर्विराजितम् २४ !। गलन्मधू ककुसुमैर्धरारूपधरंहरम्
सर्जार्जुनांजनैर्बीजैर्व्यजनैर्वीज्यमानवत्
अमंदैः पिचुमंदैश्च मंदारैः कोविदारकैः
उद्दंडैश्चापि शेहुंडैरेरंडैर्गुडपुष्पकैः
अक्षैः प्लक्षैः शल्लकीभिर्देवदारुहरिद्रुमैः
एलालवंग मरिचकुलुं जनवनावृतम् 4.1.1.
शाकशंखवनैरम्यं चदनैरक्तचंदनैः
द्राक्षावल्लीनागवल्लीकणावल्लीशतावृतम्
भ्रमद्भ्रमरमालाभिर्मालतीभिरलंकृतम्
नानामृगगणाकीर्णं नानापक्षिविनादितम्
तुच्छश्रियः स्वर्गभूमीः परिहायागतैरिव
उत्सृजंतमिवार्घ्यं वै पत्रपुष्पैरितस्ततः
अथ सूर्यशताभासं नभसि द्योतितांबरम्
ब्रह्मसूनुवपुस्तेजो दूरीकृतदरीतमाः
ब्रह्मतेजःसमुद्भूत साध्वसः साधुस त्क्रियः
दृष्ट्वा मृदुलतां तस्य द्वैरूप्येपि स नारदः 4.1.1.
गृहानायांतमालोक्य गुरुंवाऽगुरुमेव वा
तं प्रत्युच्चैः शिराःसोपि विनम्रतरकंधरः