ततो विप्रा नारदश्च समाराध्य महेश्वरम्
लोकानां च हितार्थाय केदारं लिङ्गमुत्तमम्
अत्र कुण्डे नरः स्नात्वा श्राद्धं कृत्वा यथाविधि
मातुः स्तन्यं पुनर्नैव स पिबेन्मुक्तिभाग्भवेत् 1.2.66.
वरं दत्त्वा स्वयं तस्थौ महीनगरके शुभे
जयादित्यं नमस्कृत्य रुद्रलोकमवाप्नुयात्
न तेषां वंशनाशोऽस्ति जयादित्यप्रसादतः
पुत्रपौत्रसमायुक्ता धनधान्यसमायुताः
इति प्रोक्तं मया विप्रा गुप्तक्षेत्रं समासतः स्वयंभुवा प्रोक्तमिदं सर्वकामार्थसिद्धिदम्
इति वो वर्णितः पुण्यो महीसागरसम्भवः
य इदं श्रावयेद्विद्वान्महामाहात्म्यमुत्तमम्
गुप्तक्षेत्रस्य माहात्म्यं सकलं श्रावयेद्यदि
कोटितीर्थस्य माहात्म्यं महीनगरकस्य च
कोटितीर्थे नरः स्नात्वा श्राद्धं कृत्वा प्रयत्नतः 1.2.66.
स्वर्गपातालमर्त्येषु यानि तीर्थानि सन्ति वै
अश्वमेधादिभिर्यज्ञैरिष्टैश्चैवाप्तदक्षिणैः
तत्पुण्यं प्राप्यते विप्राः कोटितीर्थे न संशयः
इदं पवित्रं खलु पुण्यदं सदा यशस्करं पापहरं परात्परम्
धन्यं यशस्यं नियतं सुपुण्यं स्वर्मोक्षदं पापहरं नराणाम्
श्रीगणेशाय नमः तं मन्महे महेशानं महेशानप्रियार्भकम्
भूमिष्ठापि न यात्रभूस्त्रिदिवतोप्युच्चैरधःस्थापि या या बद्धा भुवि मुक्तिदास्युरमृतं यस्यां मृता जंतवः
नमस्तस्मै महेशाय यस्य संध्यात्त्रयच्छलात्
अष्टादशपुराणानां कर्त्ता सत्यवतीसुतः
श्रीव्यास उवाच कदाचिन्नारदः श्रीमान्स्नात्वा श्रीनर्मदांभसि
व्रजन्विलोकयांचक्रे पुरोविंध्यं धराधरम्
द्वैरूप्येणापि कुर्वंतं स्थावरेण चरेण च
रसालयं रसालैस्तैरशोकैः शोकहारिणाम्
खपुरैः खपुराकारं श्रीफलं श्रीफलैः किल
वनश्रियः कुचाकारैर्लकुचैश्च मनोहरम् 4.1.1.
सुरंगैश्चापि नारंगैरंगमंडपवच्छियः