अहं हि सर्वदाग्रस्थं नरं पश्यामि संयुगे
अथ चेदस्ति त्वत्पौत्रमुच्चस्थं वच्मि हंत कः
उपसृत्य ततो भीमो बर्बरीकमपृच्छत
सव्यतः पंचवक्त्रः स दक्षिणे चैकवक्त्रतः ।। 1.2.66.
सव्यतो दशहस्तश्च धृतशूलाद्युदायुधः
सव्यतश्च जटाधारी दक्षिणे मुकुटोच्चयः
सव्यतश्चंद्रधारी च दक्षिणे कौस्तुभद्युतिः
ईदृशो मे नरो दृष्टो न चान्यो यो जघान तान्
सस्वनुर्देववाद्यानि साधुसाध्विति वै जगुः
विलक्षश्चाभवद्भीमो निश्वासांश्चाप्यमुंचत
कुरुशार्दूल एहीति प्रोच्य सस्मार काश्यपिम्
भीमेन सहितो व्योम्नि प्रयातो दक्षिणां दिशम्
लंकासमीपे दृष्ट्वैव सरः कृष्णोऽब्रवीद्वचः
यदि शूरोऽसि तच्छीघ्रमानयास्यतलान्मृदम् 1.2.66.
योजनं वायुजवाद्गच्छन्नधो नांतमपश्यत
अगाधमेतत्सुमहत्सरः कैश्चिन्महाबलैः
स्वेनांगुष्ठेन तेजस्वी तदर्धार्धमजायत
तदृष्ट्वा विस्मितः प्राह किमिदं कृष्ण ब्रूहि मे
कुम्भकर्ण इति ख्यातः पूर्वमासीन्निशाचरः
शिरसस्तस्य तालुक्यखंडमेतद्वृकोदर
विधृतस्त्वं च यैस्ते तु सरोगेयाभिधाः सुराः
एते हि विश्वरिपवो निहताः स्युरुपायतः
ततो भीमः प्रणम्याह मनोवाक्कायवृद्धिभिः
पुरुषोत्तम भवान्नाथ बालिशस्य प्रसीद मे 1.2.66.
रणाजिरं भूय एत्य बर्बरीकं वचोऽब्रवीत्
पूजितः सर्वलोकैस्त्वं यच्छंस्तेषां वरान्वृतान्
देहिस्थल्यां तथा वासी क्षमस्व दुष्कृतं च यत्
वासुदेवोऽपि कार्याणि सर्वाण्यूर्ध्वमकारयत् स्तवं चास्य प्रवक्ष्यामि येन तुष्यति यक्षराट्
जयजय चतुरशीतिकोटिपरिवार सूर्यवर्चाभिधान यक्षराज जय भूभारहरणप्रवृत्त लघुशापप्राप्तनैर्ऋतियोनिसंभव जय कामकटंकटाकुक्षिराजहंस जय घटोत्कचानंदवर्धन बर्बरीकाभिधान जय कृष्णोपदिष्टश्रीगुप्तक्षेत्रदे वीसमाराधनप्राप्तातुलवीर्य जय विजयसिद्धिदायक जय पिंगलारेपलेन्द्रदुहद्रुहानवकोटीश्वर पलाशनदावानल जय भूपातालांतराले नागकन्यापरि हारक जय भीममानमर्दन जय सकलकौरवसेनावधमुहूर्तप्रवृत्त जय श्रीकृष्णवरलब्धसर्ववरप्रदानसामर्थ्य जयजय कलिकालवंदितनमोनमस्ते पा हिपाहीति
अनेन यः सुहृदयं श्रावणेऽभ्यर्च्य दर्शके शतदीपैः पूरिकाभिः संस्तवेत्तस्य तुष्यति