यद्येवं भविता नाशस्तदेकं देव प्रार्थये
ततस्तथेति तं प्राह केशवो देवसंसदि
इत्युक्त्वा चावतीर्णोऽसौ सह देवैर्हरिस्तदा
सूर्यवर्चाः स चायं हि निहतो भैमिपुत्रकः तस्माद्दोषो न कृष्णेऽस्मिन्द्रष्टव्यः सर्वभू मिपैः
यद्येनमधुना नैव हन्यां ब्रह्मवचोऽन्यथा
गुप्तक्षेत्रे मयैवाऽसौ नियुक्तो देव्यनुस्मृतौ
इत्युक्ते चंडिका देवी तदा भक्तशिरस्त्विदम्
यथा राहुशिरस्तद्वत्तच्छिरः प्रणनाम तान्
ततः कृष्णो वचः प्राह मेघगंभीरवाक्प्रभुः
तावत्त्वं सर्वलोकानां वत्स पूज्यो भविष्यसि
स्वभक्तानां च लोकेषु देवीनां दास्यसे स्थितिम् पिटकास्ताः सुखेनैव शामयिष्यसि पूजनात्
इदं च शृंगमारुह्य पश्य युद्धं यथा भवेत्
धावंतः कौरवास्त्वस्मान्वयं यामस्त्वमूनिति
बर्बरीकशिरश्चैव गिरिशृंगमवाप्य तत् ततो युद्धं महदभूत्कुरुपांडवसेनयोः ।।1.2.66.
अष्टादशाहेन हता ये च द्रोणवृषादयः
युधिष्ठिरो ज्ञातिमध्ये गोविंदं समभाषत
त्वयैव नाथेन हरे नमस्ते पुरुषोत्तम
येन ध्वस्ता धार्तराष्ट्रास्तं निराकृत्य मां नृप
धृष्टद्युम्नं फाल्गुनं च सात्यकिं मां च पांडव
न मया न त्वया पार्थ नान्येनाप्यरयो हताः
अहं हि सर्वदाग्रस्थं नरं पश्यामि संयुगे
अथ चेदस्ति त्वत्पौत्रमुच्चस्थं वच्मि हंत कः
उपसृत्य ततो भीमो बर्बरीकमपृच्छत
सव्यतः पंचवक्त्रः स दक्षिणे चैकवक्त्रतः ।। 1.2.66.
सव्यतो दशहस्तश्च धृतशूलाद्युदायुधः
सव्यतश्च जटाधारी दक्षिणे मुकुटोच्चयः
सव्यतश्चंद्रधारी च दक्षिणे कौस्तुभद्युतिः
ईदृशो मे नरो दृष्टो न चान्यो यो जघान तान्
सस्वनुर्देववाद्यानि साधुसाध्विति वै जगुः
विलक्षश्चाभवद्भीमो निश्वासांश्चाप्यमुंचत