घटास्यो घटहासश्च ऊर्ध्वकेशोऽतिदीप्ति मान्
देवीदत्तातुलबलो बर्बरीकोऽभ्यभाषत
तदहं दर्शयाम्येष पश्यध्वं सहकेशवाः निःशल्यं चापि संपूर्णं सिंदूराभेण भस्मना
आकर्णमाकृप्य च तं मुमोच मुखादथोद्भूतमभूच्च भस्म
सेनाद्वये तच्च पपात शीघ्रं यस्यैव यत्रास्ति च मृत्युमर्म 1.2.66.
ऊरौ दुर्योधनस्यापि शल्यस्यापि च वक्षसि
कृष्णस्य पादतल लके कंठे द्रुपदमत्स्ययोः
पपात रक्तं तद्भस्म यत्र येषां च मर्म च
इति कृत्वा ततो भूयो बर्बरीकोऽभ्यभाषत
अधुना पातयिष्यामि मर्मस्वेषां शिताञ्छरान्
शपथा वः स्वधर्मस्य शस्त्रं ग्राह्यं न वः क्वचित्
ततो विस्मितचित्तानां युधिष्ठिरपुरोगिणाम्
वासुदेवश्च संक्रुद्धश्चक्रेण निशितेन च
ततः क्षणात्सर्वमासीदाविग्रं राजमं डलम्
किमेतदिति प्राहुश्च बर्बरीकः कुतो हतः 1.2.66.
हाहा पुत्रेति च गृणन्प्रस्खलंश्च पदेपदे
एतस्मिन्नंतरे देव्यश्चतुर्दश समाययुः
सिद्धांबिका क्रोडमाता कपाली तारा सुवर्णा च त्रिलोकजेत्री
भूतांबिका हरसिद्धिस्तथामूः संप्राप्य तस्थुर्नृपविस्मयंकराः
शृणुध्वं पार्थिवाः सर्वे कृष्णेन विदितात्मना
मेरुमूर्ध्नि पुरा पृथ्वी समवेतान्दिवौकसः
ततो ब्रह्मा प्राह विष्णुं भगवंस्त्वमिदं शृणु
ततस्तथेति तन्मेने वचनं विष्णुरव्ययः
सूर्यवर्चेति यक्षेंद्रश्चतुराशीतिकोटिपः
मयि तिष्ठति दोषाणामनेकानां महास्पदे 1.2.66.
अहमेकोऽवतीर्यैतान्हनिष्यामि भुवो भरान्
इत्युक्तवचने ब्रह्मा क्रुद्धस्तं समभाषत
स्वसाध्यं ब्रूषे मोहात्त्वं शापयोग्योऽसि बालिश
अविचार्यैव प्रभुषु वक्ति सोऽर्हति दंडनम्
शरीरनाशं कृष्णात्त्वमवाप्स्यसि न संशयः