पक्षं द्रोणेन चाह्नां च दशभिर्द्रौणिना रणे
तदहं स्वांश्च पृच्छामि केन कालेन हंति कः
अयुक्तमेतद्भीष्माद्यैः प्रतिज्ञातं युधिष्ठिर
तवापि ये संति नृपाः सन्नद्धा रणसंस्थिताः
द्रुपदं च विराटं च धृष्टकेतुं च कैकयम् 1.2.66.
धृष्टद्युम्नं सपुत्रं च महावीर्यं घटोत्कचम्
मन्येहमेकस्त्वेतेषां हन्यात्कौरववाहिनीम्
तेभ्यो भयं न कार्यं ते फल्गवोऽमी मृगा इव
अस्माकं धनुषां घोषैरिदानीमेव भारत
वृद्धाद्भीष्माद्द्विजाद्वृद्धाद्द्रोणादपि कृपादपि
अथवा चित्तनिर्वृत्यै ज्ञातुमिच्छसि भारत
एकोऽहमेव संग्रामे सर्वे तिष्ठंतु ते रथाः
इत्यर्जुनवचः श्रुत्वा स्मयन्दामोदरोऽब्रवीत्
ततश्च शंखान्भेरीश्च शतशश्चैव पुष्करान्
येन तप्तं गुप्तक्षेत्रे येन देव्यः सुतोषिताः 1.2.66.
यद्ब्रवीमि वचः सत्यं शृणुध्वं तन्नराधिपाः
यदार्येण प्रतिज्ञातमर्जुनेन महात्मना
सर्वे भवंतस्तिष्ठंतु सार्जुनाः सहकेशवाः
मयि तिष्ठति केनापि शस्त्रग्राह्यं न क्षत्रियैः
पश्यध्वं मे बलं बाह्वोर्देव्याराधनसंभवम्
पश्यध्वं मे धनुर्घोरं तूणीरावक्षयौ तथा
इति तस्य वचः श्रुत्वा क्षत्रिया विस्मयं ययुः
तमाह ललितं कृष्णः फाल्गुनं परमं वचः
नवकोटियुतोऽनेन पलाशी निहतः पुरा
पुनः प्रक्ष्यामदे त्वेनं क्वेनोपायेन कौरवान् 1.2.66.
ततः स्मरन्यादवेंद्रो भैमिपुत्रमभाषत
भीप्मद्रोणकृपद्रौणिकर्णदुर्योधनादिभिः
अयं महान्विस्मयस्ते वचसो भैमिनंदन
तद्ब्रूहि केनोपायेन मुहूर्ताद्धंसि कौरवान्
सिंहवक्षाः पर्वताभो नानाभूषणभूषितः