जंजल्पाकौ जजपतुः सर्वमंत्राधिकं सदा
प्रदक्षिणानमस्कारैर्मुद्राबंधैर्नवैर्नवैः
पंचब्रह्मषडंगाद्यैरर्चयामासतुः शिवम्
वेधोविष्णू समाराध्य शिवज्ञानमवापतुः
इतीदमश्रावि मया रहस्यं पितुः शिलादस्य मुखात्पुरा यत्
तथापि कौतुकेनाहमाक्रांतो मुनयोऽप्यमी
शृणु त्वमवधानेन मार्कंडेय महामते
ननु जानासि तत्पूर्वं यथा दाक्षायणी शिवः
यथा च सा क्रुधा भर्तुर्द्रुहि दक्षप्रजापतौ
तदा हराज्ञानिघ्नेन वीरभद्रेण यत्कृतम्
अश्रौषीस्तस्य दक्षस्य गणैः शीर्षासखंडनम्
दंतघातं रवेः पाणिपाटनं जातवेदसः
सा च देवी पुनर्जन्म लेभे हिमवतो गृहे
देवः स्थाणुवने तां च परिचर्यापरं रहः 1.3.2.17.
जितेंद्रियं च तं देवं क्वापि यातं गणैः सह
उपयम्याथ तां देवो वृत्तांतैश्चित्तखंडिभिः
वैधव्यखिन्नया रत्या प्रार्थिता शैलनंदिनी
पुनश्च मेनया मात्रा पित्रा च हिमभूभृता
तदा शुंभनिशुंभाख्यौ लेभाते वेधसो वरम्
इति तद्वचनं श्रुत्वा जातत्रासैः सुपर्वभिः
माभैष्ट भद्र कालेन तथा प्रतिविधीयते
दत्ताभयान्मुकुंदादीन्विसृज्यांधकसूदनः
कदाचिन्मर्मलक्ष्येण प्रीत्या कालीति निंदिता
यत्रोत्क्षिप्तवती चर्म स्वेच्छया परमेश्वरी 1.3.2.17.
सा च त्वक्कौशिकी नाम्ना काली विंध्याद्रिवासिनी
देवी च गौरी शिखरे तस्मिन्नेव मनोहरे
क्रमेण दौर्हृदवती भूत्वा प्रासूत पार्वती
तौ चागमविदः प्राहुर्नारायणचतुर्मुखौ
वर्धमानौ च तौ बालौ पित्रोरालोकमानयोः
जातु वीणानिनादेन कदाचिच्चित्रलेखनैः