पुत्रपौत्रान्प्रदास्यामि स्वर्गं मोक्षं न संशयः वत्सराजः पांडवानां तोषयिष्यति यत्नतः
यस्य नाम्ना ततः ख्याता भविष्यामि कलौ युगे
मत्प्रसादात्स राजा वै भवनोत्तापकारिणीम्
तस्याश्चापि वधस्थानमट्टालजमिति स्थितम् 1.2.65.
अट्टालयाजग्रामे मामर्चयिष्यंति ये जनाः
वत्सेश्वरीं च ये देवीं पूजयिष्यंति मानवाः
इत्थमट्टालये वासो लोहाणे च भविष्यति
मम लोकहितार्थाय लोहस्य च निशम्यताम्
वृत्रासुर इवाजेयो लोकानुत्सादयिष्यति
यत्र हंता तत्र ग्रामं लोहाटीति भविष्यति
प्रस्थाने लोहवद्भावी करिष्ये तं नपुंसकम्
ग्रामं चापि गयत्राडं तत्र ख्यातं भविष्यति
माघाष्टम्यां न शिष्यंति तस्य सर्वेऽप्युपद्रवाः
तेषां पुंस्त्वं हरिष्यामि महारौद्राधितिष्ठति 1.2.65.
तस्मिन्कलियुगे घोरे रौद्रे रुद्रेऽतिनिर्घृणे
भवत्सु च स्वर्गतेषु गयोऽपि सुमहत्तपः
गयातीर्थं गतं तं च गयाध्वंसनकाम्यया
इत्थं श्रीमान्पीतवासा अवतीर्य बुधः प्रभुः
इति संक्षेपतः प्रोक्तं भविष्यं पांडवा मया
इदं तीर्थवरं मह्यं संसेव्यं सर्वदा प्रियम्
भीमस्य चापि पौत्रेण दृढं संतोषिताऽस्मि च
व्रजध्वं चापि तीर्थानि यानि वो न कृतानि च
आपृच्छे चापि वः सर्वान्यूयं कृष्णसमा मम
पुनःपुनः प्रणम्यैनां नापश्यन्दीपवद्गताम् ।। 1.2.65.
ततस्ते बर्बरीकं च संस्थाप्यात्रैव निष्ठितम्
उपप्लवे संगतेषु सर्वराजसु पांडवाः
योद्धुमागत्य संतस्थुः कुरुक्षेत्रं महारथाः
ततो भीष्मेण प्रोक्तां च नरैः श्रुत्वा युधिष्ठिरः
भीष्मेण विहिता कृष्ण रथातिरथवर्णना
ससैन्यान्पांडवानेतान्हन्यात्कालेन केन कः