इदानीं च हरिर्जातो वसुदेवसुतो भुवि
तद्यथा भगवान्कृष्णो मम भ्राताभिपूजितः
ये भीमभगिनीत्येवं मां स्तोष्यंति नरोत्तमाः
त्वं च भ्रातुर्जयं वीर प्रदास्यसि महारणे 1.2.65.
कृत्वा राज्यं च वर्षाणि षट्त्रिंशत्तदनन्तरम्
अस्मिन्नेव ततो देशे लोहोनाम महासुरः
ततस्तं सर्वभूतानामवध्यं भवतां कृते
निस्तीर्य च हिमं सर्वं निमग्नाः बालुकार्णवे
अन्धो यत्र कृतो लोहो लोहाणाभिधया पुरम्
ततः कलियुगे प्राप्ते केलो नाम भविष्यति
वैलाकश्चापरो भक्तो भविष्यति ममोत्तमः
लोहाणासंस्थितां चैव येर्चयिष्यंति मां जनाः
अंधानां च प्रदास्यामि भावीनि नयनान्यहम्
पादांगुष्ठेन च भवांस्तत्र कुंडं विधास्यति 1.2.65.
मत्स्यानां नेत्रनेत्रस्थतेजस्तन्मात्रमुत्तमम्
एवं मम महास्थानं कलौ ख्यातं भविष्यति
लोहाणाख्यं महाबाहो नाम केलेश्वरीति च
धर्मारण्ये वसिष्यामि भवतां त्राणकारणात्
धर्मारण्ये स्थितां चैव येऽर्चयिष्यंति मानवाः
स्नात्वा महीसागरे च तेषां दास्यामि वांछितम्
पुत्रपौत्रान्प्रदास्यामि स्वर्गं मोक्षं न संशयः वत्सराजः पांडवानां तोषयिष्यति यत्नतः
यस्य नाम्ना ततः ख्याता भविष्यामि कलौ युगे
मत्प्रसादात्स राजा वै भवनोत्तापकारिणीम्
तस्याश्चापि वधस्थानमट्टालजमिति स्थितम् 1.2.65.
अट्टालयाजग्रामे मामर्चयिष्यंति ये जनाः
वत्सेश्वरीं च ये देवीं पूजयिष्यंति मानवाः
इत्थमट्टालये वासो लोहाणे च भविष्यति
मम लोकहितार्थाय लोहस्य च निशम्यताम्
वृत्रासुर इवाजेयो लोकानुत्सादयिष्यति
यत्र हंता तत्र ग्रामं लोहाटीति भविष्यति