स्वयमुत्पाद्य यो रेणुं वेष्टितस्तेन कुप्यति
इति स्तुता पांडवेन देवी कृष्णच्छविच्छविः
विद्युत्कोटिसमाभास मुकुटेनातिशोभिता
प्रवाहेनेव हारेण सुरनद्या विराजिता ।। कल्पद्रुमप्रसूनैश्च पूर्णावतंसमंडिता
दन्तेन्दुकांतिविध्वस्तभक्तमोहमहाभया 1.2.65.
वाससा तडिदाभेन मेघलेखेव वेष्टिता
सतां शरणदाभ्यां च पद्भ्यां नूपुरराजिता
गणैर्देवीभिराकीर्णा शतपद्मैर्महामलैः
भूमौ निपत्य राजेंद्रो नमोनम इति स्थितः
तथा सम्मुखमाधावज्जय मातरिति ब्रुवन्
प्रणिपत्य नमस्तुभ्यं नमस्तुभ्यं मुहुर्जगौ
पुनः प्रसीद पापस्य क्षमाथीले प्रसीद मे
एवं स्तुता भगवती स्वयमुत्थाय पार्थिवम्
अतो नेत्रत्रयं दत्तं द्वे बाह्ये चांतरं परम्
नाहं कोपं यत्र तत्र दर्शयामि वृकोदर 1.2.65.
नैतत्प्रियं च कृष्णस्य भ्रातुर्मे क्रोधमाचरम्
त्वं च निन्दसि मां नित्यं तच्च जाने वृकोदर
तदेवं नैव भूयस्ते प्रकर्तव्यं कथंचन
तदिदानीं सर्वमेवं क्षन्तव्यं च परस्परम्
यदा यदा हि धर्मस्य ग्लानिराविर्भवेद्धरिः
इदानीं च हरिर्जातो वसुदेवसुतो भुवि
तद्यथा भगवान्कृष्णो मम भ्राताभिपूजितः
ये भीमभगिनीत्येवं मां स्तोष्यंति नरोत्तमाः
त्वं च भ्रातुर्जयं वीर प्रदास्यसि महारणे 1.2.65.
कृत्वा राज्यं च वर्षाणि षट्त्रिंशत्तदनन्तरम्
अस्मिन्नेव ततो देशे लोहोनाम महासुरः
ततस्तं सर्वभूतानामवध्यं भवतां कृते
निस्तीर्य च हिमं सर्वं निमग्नाः बालुकार्णवे
अन्धो यत्र कृतो लोहो लोहाणाभिधया पुरम्
ततः कलियुगे प्राप्ते केलो नाम भविष्यति