यदि न स्यान्महामाया ब्रह्मविष्णुशिवार्चिता
ईश्वरः परमात्मा तां त्यक्तुं शक्तः कथं न हि
वासुदेवोऽपि नित्यं तां स्तौति शक्तिं परात्पराम्
नैवं भूयः प्रवक्तव्यं मौर्ख्यात्प्रति महेश्वरीम्
इदमेवौषधं तत्र तैः सार्धं जल्पनं न हि ।। 1.2.65.
मुण्डे मुण्डे मतिर्भिन्ना सत्यमेतन्नृप स्फुटम्
नागायुतसमप्राणो वायुपुत्रो वृकोदरः
इत्युक्त्वा वचनं भीमो ह्यनुवव्राज तं नृपम्
ततः क्षणेन विकलस्त्वितश्चेतश्च प्रस्खलत्
धर्मराज महाबुद्धे पश्य मां नृपसत्तम
भीमभीम ध्रुवं देवी कुपिता ते महेश्वरी
तत्सांप्रतमभिप्रैहि शरणं परमेश्वरीम्
प्रभावप्रत्ययार्थं हि सदा निन्दामि तां पुनः
तस्मात्प्रभावं दृष्ट्वैवं निपत्य वसुधातले
गत्वैव देव्याः शरणं भीमस्तुष्टाव मातरम् ।। 1.2.65.
बालिशं बालकं स्वीयं त्राहित्राहि नमोऽस्तु ते
त्वं ब्राह्मी ब्रह्मणः शक्तिर्वैष्णवी त्वं च शांभवी
त्वमैन्द्री च त्वमाग्नेयी त्वं याम्या त्वं च नैर्ऋती
ऐशानि देवि वाराहि नारसिंहि जयप्रदे
त्वं सूर्ये त्वं तथा सोमे त्वं भौमे त्वं बुधे गुरौ
वससि ध्रुवचक्रे त्वं मुनिचक्रे च ते स्थितिः
सप्तद्वीपेषु त्वं देवि समुद्रेषु च सप्तसु
त्वं देवि चावतारेषु विष्णोः साहाय्यकारिणी
चतुर्भुजे चतुर्वक्त्रे फलदे चत्वरप्रिये
महाघोरे कालरात्रि घंटालि विकटोज्वले 1.2.65.
मेरुवासिनि पिंगाक्षि नेत्रत्राणैककारिणि
महानादे महावीर्ये महा मोहविनाशिनि
सर्वमंगलमंगल्या यदि त्वं सत्यतोंबिके
यदि सर्वकृपालुभ्यः सत्यतस्त्वं कृपावती
पापोयमिति यद्देवि प्रकुप्यसि वृथैव तत्