कार्यारम्भेषु सर्वेषु सानुगेन मया तव
वायुपुत्रः प्रहस्यैव सासूयमिदमब्रवीत्
ये त्वां राजन्वदंत्येवं सर्वज्ञोऽयं युधिष्ठिरः
को हि प्रज्ञावतां मुख्यः सर्वशास्त्रविदांवरः
यतस्त्वमेव वेत्सीदं सर्वशास्त्रेषु कीर्त्यते 1.2.65.
सचेतनं च पुरुषं प्रकृतिं च विचेतनाम्
तत्स्वयं पुरुषो भूत्वा युधिष्ठिर वृथामते
आरोहयेच्छिरो नैव क्वचिद्धित्वा उपानहौ
यदि ते बन्दिवत्पार्थ तिष्ठेद्वाण्यनिवारिता
अलक्ष्यमिति वा मत्वा महेशानं महामते
यस्य प्रसादादस्माभिः प्राप्ता द्रुपदनंदिनी
विजयेन धनुर्लब्धं जरासन्धो मया हतः
यस्य प्रसादात्तं मुक्त्वा कृष्णं हा स्तौषि यज्जयी
जानन्नात्मानमल्पत्वाद्बुद्धेर्न स्तौषि यादवम्
येन विद्धं पुरा लक्ष्यं येन कर्णादयो जिताः 1.2.65.
श्रूयते येन विक्रम्य महेशानोऽपि निर्जितः
अथवा तेन शक्रेण राज्यं मे नार्पितं कुतः
ततो मां वा कथं वीरं न स्तौषि त्वं युधिष्ठिर
वृक्षेणाहत्य मद्रेशो नदीं शुष्कां प्रसारितः
पूर्वा दिङ्निर्जिता येन येन पूर्वं बको हतः
कालेकाले च रक्षामि त्वामेवाहं सदानुगः
अथ क्षुधाबलं ज्ञात्वा मामौदरिकसत्तमम्
ततः सुसंयतो भूत्वा प्रणवं समुदीरयन्
प्रेताः पिशाचा रक्षांसि वृथालापरतं नरम्
वृथालापी यदश्नाति यत्करोति शुभं क्वचित् 1.2.65.
नायं तस्यास्ति वै लोकः कुत एव परो भवेत्
एवं संस्मारितोऽपि त्वं यदि भूयः प्रवर्तसे
पटीमिव प्रविततां विहस्याह युधिष्ठिरः
नूनं त्वमल्पविज्ञानो वेदाधीतास्त्वया वृथा
स्त्रीपक्ष इति मत्वा तामवजानासि भोः कथम्