यतः सर्वः क्षत्रियस्य दंड्यो विपथिसंस्थि तः
पितृमातृसुहृद्भ्रातृपुत्रादीनां किमुच्यते
यस्य त्वीदृशकः पौत्रो धर्मज्ञो धर्मपालकः
तस्माच्छोकं विहायेमं स्वस्थो भवि तुमर्हसि
बर्बरीक उवाच पापं मां ताततात त्वं ब्रह्मघ्नादपि कुत्सितम्
सर्वेषामेव पापानां निष्कृतिः प्रोच्यते बुधैः
तद्येन देहेन मया ताततातोऽभिपीडितः
मैवं भवेयमन्येषु अपि जन्मसु पातकी
यतोंऽशेन विलुप्येत प्रायश्चित्तान्निवारकः 1.2.64.
समुद्रोऽपि चकंपे च कथमेनं निहन्म्यहम्
समालिंग्य च संस्थाप्य रुद्रेण सहिता जगुः
शास्त्रेषूक्तमिदं वाक्यं नान्यथा कर्तुमर्हसि
पुत्रपुत्रेति भाषंतमनु त्वा मरणोन्मुखम्
ततस्त्यक्ष्यति भीमोऽपि पातकं तन्महत्तव
अथ चेत्त्यक्तुकामस्त्वं तत्रापि वचनं शृणु
देहपातस्तव प्रोक्तस्तं प्रतीक्ष यदीच्छ सि
तस्मात्प्रतीक्ष तं कालमस्माकं प्रार्थितेन च
रुद्रं देवीश्च चामुंडां सोपालंभं वचोऽब्रवीत्
पांडवा भूमिलाभार्थे तत्ते कस्मादुपेक्षितम् 1.2.64.
यस्माच्च चंडिकाकृत्ये कृतोऽनेन महारणः
एवमुक्त्वा गताः सर्वे देवा देव्यस्त्वदृश्यताम्
विस्मिताः पांडवास्तं च पूजयित्वा पुनः पुनः
भीमोपि यत्र रुद्रेण मोक्षितस्तत्र सुप्रभम्
ज्येष्ठमासे कृष्णपक्षे चतुर्दश्यामुपोषितः
यथैव लिंगानि सुपूजितानि सप्तात्र मुख्यानि महाफलानि
युधिष्ठिरो महातेजा गमनायोपचक्रमे
प्रभाते विमले स्नात्वा देवीर्लिंगान्यथार्च्य च प्रयाणकालेषु सदा जप्यं कृष्णेन कीर्तितम्
नत्वा त्वां शरणं यामि मनोवाक्कायकर्मभिः
संकर्षणाभयदाने कृष्णच्छविसमप्रभे
त्वया ततमिदं विश्वं जगदव्यक्तरूपया