सागरस्य ततस्तीरे बर्बरीकं गतं तदा
भोभो राक्षसशार्दूल बर्बरीक महाबल
अयं हि तीर्थयात्रायां विचरन्भ्रातृभिर्युतः
सम्मानं सर्वथा तस्मादर्हः कौरवनंदनः
न्यपतत्पादयोर्हा धिक्कष्टं कष्टं च प्राह सः
क्षम्यतां क्षम्यतां चेति पुनः पुनरवोचत
तं तथा परिशोचंतं मुह्यमानं मुहुर्मुहुः
वयं त्वां नैव जानीमस्त्वं चास्माञ्जन्मकालतः
परं नो विस्मृतं सर्वं नानादुःखैः प्रमुह्यताम् 1.2.64.
तदस्माकमिदं दुःखं सर्वकालविधानतः
यतः सर्वः क्षत्रियस्य दंड्यो विपथिसंस्थि तः
पितृमातृसुहृद्भ्रातृपुत्रादीनां किमुच्यते
यस्य त्वीदृशकः पौत्रो धर्मज्ञो धर्मपालकः
तस्माच्छोकं विहायेमं स्वस्थो भवि तुमर्हसि
बर्बरीक उवाच पापं मां ताततात त्वं ब्रह्मघ्नादपि कुत्सितम्
सर्वेषामेव पापानां निष्कृतिः प्रोच्यते बुधैः
तद्येन देहेन मया ताततातोऽभिपीडितः
मैवं भवेयमन्येषु अपि जन्मसु पातकी
यतोंऽशेन विलुप्येत प्रायश्चित्तान्निवारकः 1.2.64.
समुद्रोऽपि चकंपे च कथमेनं निहन्म्यहम्
समालिंग्य च संस्थाप्य रुद्रेण सहिता जगुः
शास्त्रेषूक्तमिदं वाक्यं नान्यथा कर्तुमर्हसि
पुत्रपुत्रेति भाषंतमनु त्वा मरणोन्मुखम्
ततस्त्यक्ष्यति भीमोऽपि पातकं तन्महत्तव
अथ चेत्त्यक्तुकामस्त्वं तत्रापि वचनं शृणु
देहपातस्तव प्रोक्तस्तं प्रतीक्ष यदीच्छ सि
तस्मात्प्रतीक्ष तं कालमस्माकं प्रार्थितेन च
रुद्रं देवीश्च चामुंडां सोपालंभं वचोऽब्रवीत्
पांडवा भूमिलाभार्थे तत्ते कस्मादुपेक्षितम् 1.2.64.
यस्माच्च चंडिकाकृत्ये कृतोऽनेन महारणः