एवं प्रक्षालयाने च पादौ तत्र वृकोदरे
दुर्मते भोः किमेतत्त्वं कुरुषे पापनिश्चयः
यतो देवी सदानेन जलेन स्नाप्यते मया
मलाक्ततोयं यन्नाम अस्पृश्यं तन्नरैरपि
शीघ्रं च त्वं निःसरास्मात्कुण्डाद्भूत्वा बहिः पिब
यतस्तोयानि जंतूनामुपभो गार्थमेव हि
तीर्थेषु कार्यं स्नानं चेत्युक्तं मुनिवरैरपि
यदि न क्रियते पानमंगप्रक्षालनं तथा
चरेषु किं तु संविश्य स्थावरेषु बहिः स्थितः ।। 1.2.64.
स्थावरेष्वपि संविश्य तन्न स्नानं विधीयते
यच्च हस्तशतादूर्ध्वं सरस्तत्र विधीयते
ततः स्नानं प्रकर्तव्यमन्यथा दोष उच्यते
मलं मूत्रं पुरीषं च श्लेष्म निष्ठीनाश्रु च
तस्मान्निःसर शीघ्रं त्वं यद्येवमजितेन्द्रियः
यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम्
क्षुधा तृषा मया नित्यं वारितुं नैव शक्यते
किं न श्रुतस्त्वया श्लोकः शिबिना यः समीरितः
मुहूर्तमपि जीवेत नरः शुक्लेन कर्मणा
पास्याम्येव जलं चात्र कामं विलप शुष्य वा ।। 1.2.64.
तस्मात्ते पातकं कर्तुं न दास्यामि कथंचन
तद्वराकाथ शीघ्रं त्वमस्मात्कुंडाद्विनिःसर
इष्टकाशकलैः शीघ्रं चूर्णयिष्येऽन्यथा शिरः
भीमश्च वंचयित्वा तामुत्प्लुत्य बहिराव्रजत्
युयुधाते प्रलंबाभ्यां बाहुभ्यां युद्धपारगौ
मुष्टिभिः पार्ष्णिघातैश्च जानुभिश्चाभिजघ्नतुः
हीयमानस्ततो भीम उद्यतोऽभूत्पुनः पुनः
ततो भीमं समुत्पाट्य बर्बरीको बलादिव
मूर्छितं चैवमादाय विस्फुरन्तं पुनःपुनः
ददृशुः पांडवा नैतद्देव्या नयनयंत्रिताः ।। 1.2.64.
तथा गृहीते कुरुवीरमुख्ये वीरेण तेनाद्भुतविक्रमेण