त्वं च होमस्थितं भस्म सिंदूरसदृशप्रभम्
अक्षय्यमेतत्संग्रामे प्रथमं ते प्रमुंचतः
एवं सुखेन विजयः शत्रूणां ते भविष्यति
साकांक्षमुपकुर्याद्यः साधुत्वे तस्य को गुणः
तद्देहि भस्म चान्यस्मै केनाप्यर्थो न मेऽण्वपि
ततो भूमिस्थितं भस्म प्राप्स्यंति यदि कौरवाः ।। 1.2.63.
महाननर्थो भविता पांडवानां ततः स्फुटम्
देवीभिः सहिता देवाः संमान्य विजयं च ते
एवं स विजयो विप्रः सिद्धिं लेभे सुदुर्लभाम्
एवं तत्र स्थिते तीरे देव्याराधनतत्परे
ततः कालेन केनापि पांडवा द्यूतनिर्जिताः
प्रागेव चंडिकां देवीं क्षेत्रादीशानतः स्थिताम्
तत्रैव चोपविष्टोऽभूत्तदानीं चंडिकागणः
परं नासौ वेद पाण्डून्पाण्डवास्तं च नो विदुः
ततः प्रविश्य वै तस्मिन्देवीमासाद्य पांडवाः
ततो भीमः कुण्डमध्यं जलं पातुं विवेश ह
उद्धृत्य भीम तोयं त्वं पादौ प्रक्षाल्य भो बहिः
एतद्राज्ञो वचो भीमस्तृषा व्याकुललोचनः
स च दृष्ट्वा जलं पातुं तत्रैव कृतनिश्चयः 1.2.64.
यतः पीतं जलं पुंसामप्रक्षाल्य च यद्भवेत्
एवं प्रक्षालयाने च पादौ तत्र वृकोदरे
दुर्मते भोः किमेतत्त्वं कुरुषे पापनिश्चयः
यतो देवी सदानेन जलेन स्नाप्यते मया
मलाक्ततोयं यन्नाम अस्पृश्यं तन्नरैरपि
शीघ्रं च त्वं निःसरास्मात्कुण्डाद्भूत्वा बहिः पिब
यतस्तोयानि जंतूनामुपभो गार्थमेव हि
तीर्थेषु कार्यं स्नानं चेत्युक्तं मुनिवरैरपि
यदि न क्रियते पानमंगप्रक्षालनं तथा
चरेषु किं तु संविश्य स्थावरेषु बहिः स्थितः ।। 1.2.64.
स्थावरेष्वपि संविश्य तन्न स्नानं विधीयते